रामायण · अध्याय 5.006
स वेश्मजालं बलवान् ददर्श व्यासक्तवैदूर्यसुवर्णजालम्
यथा महत् प्रावृषि मेघजालं विद्युत्पिनद्धं सविहंगजालम्
निवेशनानां विविधाश् च शालाः प्रधानशङ्खायुधचापशालाः
मनोहराश् चापि पुनर् विशाला ददर्श वेश्माद्रिषु चन्द्रशालाः
गृहाणि नानावसुराजितानि देवासुरैश् चापि सुपूजितानि
सर्वैश् च दोषैः परिवर्जितानि कपिर् ददर्श स्वबलार्जितानि
तानि प्रयत्नाभिसमाहितानि मयेन साक्षाद् इव निर्मितानि
महीतले सर्वगुणोत्तराणि ददर्श लङ्काधिपतेर् गृहाणि
ततो ददर्शोच्छ्रितमेघरूपं मनोहरं काञ्चनचारुरूपम्
रक्षोऽधिपस्यात्मबलानुरूपं गृहोत्तमं ह्य् अप्रतिरूपरूपम्
महीतले स्वर्गम् इव प्रकीर्णं श्रिया ज्वलन्तं बहुरत्नकीर्णम्
नानातरूणां कुसुमावकीर्णं गिरेर् इवाग्रं रजसावकीर्णम्
नारीप्रवेकैर् इव दीप्यमानं तडिद्भिर् अम्भोदवद् अर्च्यमानम्
हंसप्रवेकैर् इव वाह्यमानं श्रिया युतं खे सुकृतां विमानम्
यथा नगाग्रं बहुधातुचित्रं यथा नभश् च ग्रहचन्द्रचित्रम्
ददर्श युक्तीकृतमेघचित्रं विमानरत्नं बहुरत्नचित्रम्
मही कृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः
वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं केसरपत्रपूर्णम्
कृतानि वेश्मानि च पाण्डुराणि तथा सुपुष्पा अपि पुष्करिण्यः
पुनश् च पद्मानि सकेसराणि धन्यानि चित्राणि तथा वनानि
पुष्पाह्वयं नाम विराजमानं रत्नप्रभाभिश् च विवर्धमानम्
वेश्मोत्तमानाम् अपि चोच्चमानं महाकपिस् तत्र महाविमानम्
कृताश् च वैदूर्यमया विहंगा रूप्यप्रवालैश् च तथा विहंगाः
चित्राश् च नानावसुभिर् भुजंगा जात्यानुरूपास् तुरगाः शुभाङ्गाः
प्रवालजाम्बूनदपुष्पपक्षाः सलीलम् आवर्जितजिह्मपक्षाः
कामस्य साक्षाद् इव भान्ति पक्षाः कृता विहंगाः सुमुखाः सुपक्षाः
नियुज्यमानाश् च गजाः सुहस्ताः सकेसराश् चोत्पलपत्रहस्ताः
बभूव देवी च कृता सुहस्ता लक्ष्मीस् तथा पद्मिनि पद्महस्ता
इतीव तद् गृहम् अभिगम्य शोभनं सविस्मयो नगम् इव चारुशोभनम्
पुनश् च तत् परमसुगन्धि सुन्दरं हिमात्यये नगम् इव चारुकन्दरम्
ततः स तां कपिर् अभिपत्य पूजितां चरन् पुरीं दशमुखबाहुपालिताम्
अदृश्य तां जनकसुतां सुपूजितां सुदुःखितां पतिगुणवेगनिर्जिताम्
ततस् तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः
अपश्यतो ऽभवद् अतिदुःखितं मनः सुचक्षुषः प्रविचरतो महात्मनः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0