रामायण · अध्याय 5.004
ततः स मध्यं गतम् अंशुमन्तं ज्योत्स्नावितानं महद् उद्वमन्तम्
ददर्श धीमान् दिवि भानुमन्तं गोष्ठे वृषं मत्तम् इव भ्रमन्तम्
लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम्
भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुम् अथाभियान्तम्
या भाति लक्ष्मीर् भुवि मन्दरस्था तथा प्रदोषेषु च सागरस्था
तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था
हंसो यथा राजतपञ्जुरस्थः सिंहो यथा मन्दरकन्दरस्थः
वीरो यथा गर्वितकुञ्जरस्थश् चन्द्रो ऽपि बभ्राज तथाम्बरस्थः
स्थितः ककुद्मान् इव तीक्ष्णशृङ्गो महाचलः श्वेत इवोच्चशृङ्गः
हस्तीव जाम्बूनदबद्धशृङ्गो विभाति चन्द्रः परिपूर्णशृङ्गः
प्रकाशचन्द्रोदयनष्टदोषः प्रवृद्धरक्षः पिशिताशदोषः
रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान् प्रदोषः
तन्त्री स्वनाः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिः सुवृत्ताः
नक्तंचराश् चापि तथा प्रवृत्ता विहर्तुम् अत्यद्भुतरौद्रवृत्ताः
मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसंकुलानि
वीरश्रिया चापि समाकुलानि ददर्श धीमान् स कपिः कुलानि
परस्परं चाधिकम् आक्षिपन्ति भुजांश् च पीनान् अधिविक्षिपन्ति
मत्तप्रलापान् अधिविक्षिपन्ति मत्तानि चान्योन्यम् अधिक्षिपन्ति
रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि कान्तासु च विक्षिपन्ति
ददर्श कान्ताश् च समालपन्ति तथापरास् तत्र पुनः स्वपन्ति
महागजैश् चापि तथा नदद्भिः सूपूजितैश् चापि तथा सुसद्भिः
रराज वीरैश् च विनिःश्वसद्भिर् ह्रदो भुजङ्गैर् इव निःश्वसद्भिः
बुद्धिप्रधानान् रुचिराभिधानान् संश्रद्दधानाञ् जगतः प्रधानान्
नानाविधानान् रुचिराभिधानान् ददर्श तस्यां पुरि यातुधानान्
ननन्द दृष्ट्वा स च तान् सुरूपान् नानागुणान् आत्मगुणानुरूपान्
विद्योतमानान् स च तान् सुरूपान् ददर्श कांश् चिच् च पुनर् विरूपान्
ततो वरार्हाः सुविशुद्धभावास् तेषां स्त्रियस् तत्र महानुभावाः
प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुप्रभावाः
श्रिया ज्वलन्तीस् त्रपयोपगूढा निशीथकाले रमणोपगूढाः
ददर्श काश् चित् प्रमदोपगूढा यथा विहंगाः कुसुमोपगूडाः
अन्याः पुनर् हर्म्यतलोपविष्टास् तत्र प्रियाङ्केषु सुखोपविष्टाः
भर्तुः प्रिया धर्मपरा निविष्टा ददर्श धीमान् मनदाभिविष्टाः
अप्रावृताः काञ्चनराजिवर्णाः काश् चित् परार्ध्यास् तपनीयवर्णाः
पुनश् च काश् चिच् छशलक्ष्मवर्णाः कान्तप्रहीणा रुचिराङ्गवर्णाः
ततः प्रियान् प्राप्य मनोऽभिरामान् सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः
गृहेषु हृष्टाः परमाभिरामा हरिप्रवीरः स ददर्श रामाः
चन्द्रप्रकाशाश् च हि वक्त्रमाला वक्राक्षिपक्ष्माश् च सुनेत्रमालाः
विभूषणानां च ददर्श मालाः शतह्रदानाम् इव चारुमालाः
न त्व् एव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम्
लतां प्रफुल्लाम् इव साधुजातां ददर्श तन्वीं मनसाभिजाताम्
सनातने वर्त्मनि संनिविष्टां रामेक्षणीं तां मदनाभिविष्टाम्
भर्तुर् मनः श्रीमद् अनुप्रविष्टां स्त्रीभ्यो वराभ्यश् च सदा विशिष्टाम्
उष्णार्दितां सानुसृतास्रकण्ठीं पुरा वरार्होत्तमनिष्ककण्ठीम्
सुजातपक्ष्माम् अभिरक्तकण्ठीं वने प्रवृत्ताम् इव नीलकण्ठीम्
अव्यक्तलेखाम् इव चन्द्रलेखां पांसुप्रदिग्धाम् इव हेमलेखाम्
क्षतप्ररूढाम् इव बाणलेखां वायुप्रभिन्नाम् इव मेघलेखाम्
सीताम् अपश्यन् मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य
बभूव दुःखाभिहतश् चिरस्य प्लवंगमो मन्द इवाचिरस्य
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0