भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 4.062

4.062.001

एतैर् अन्यैश् च बहुभिर् वाक्यैर् वाक्यविशारदः
मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वम् आश्रमम्

4.062.002

कन्दरात् तु विसर्पित्वा पर्वतस्य शनैः शनैः
अहं विन्ध्यं समारुह्य भवतः प्रतिपालये

4.062.003

अद्य त्व् एतस्य कालस्य साग्रं वर्षशतं गतम्
देशकालप्रतीक्षो ऽस्मि हृदि कृत्वा मुनेर् वचः

4.062.004

महाप्रस्थानम् आसाद्य स्वर्गते तु निशाकरे
मां निर्दहति संतापो वितर्कैर् बहुभिर् वृतम्

4.062.005

उत्थितां मरणे बुद्धिं मुनि वाक्यैर् निवर्तये
बुद्धिर् या तेन मे दत्ता प्राणसंरक्षणाय तु
सा मे ऽपनयते दुःखं दीप्तेवाग्निशिखा तमः

4.062.006

बुध्यता च मया वीर्यं रावणस्य दुरात्मनः
पुत्रः संतर्जितो वाग्भिर् न त्राता मैथिली कथम्

4.062.007

तस्या विलपितं श्रुत्वा तौ च सीता विनाकृतौ
न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम्

4.062.008

तस्य त्व् एवं ब्रुवाणस्य संपातेर् वानरैः सह
उत्पेततुस् तदा पक्षौ समक्षं वनचारिणाम्

4.062.009

स दृष्ट्वा स्वां तनुं पक्षैर् उद्गतैर् अरुणच्छदैः
प्रहर्षम् अतुलं लेभे वानरांश् चेदम् अब्रवीत्

4.062.010

निशाकरस्य महर्षेः प्रभावाद् अमितात्मनः
आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनर् उत्थितौ

4.062.011

यौवने वर्तमानस्य ममासीद् यः पराक्रमः
तम् एवाद्यावगच्छामि बलं पौरुषम् एव च

4.062.012

सर्वथा क्रियतां यत्नः सीताम् अधिगमिष्यथ
पक्षलाभो ममायं वः सिद्धिप्रत्यय कारकः

4.062.013

इत्य् उक्त्वा तान् हरीन् सर्वान् संपातिः पततां वरः
उत्पपात गिरेः शृङ्गाज् जिज्ञासुः खगमो गतिम्

4.062.014

तस्य तद् वचनं श्रुत्वा प्रीतिसंहृष्टमानसाः
बभूवुर् हरिशार्दूला विक्रमाभ्युदयोन्मुखाः

4.062.015

अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्ध पौरुषाः
अभिजिदभिमुखां दिशं ययुर् जनकसुता परिमार्गणोन्मुखाः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc