रामायण · अध्याय 4.059
ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः
उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः
तम् अङ्गदम् उपासीनं तैः सर्वैर् हरिभिर् वृतम्
जनितप्रत्ययो हर्षात् संपातिः पुनर् अब्रवीत्
कृत्वा निःशब्दम् एकाग्राः शृण्वन्तु हरयो मम
तत्त्वं संकीर्तयिष्यामि यथा जानामि मैथिलीम्
अस्य विन्ध्यस्य शिखरे पतितो ऽस्मि पुरा वने
सूर्यातपपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः
लब्धसंज्ञस् तु षड्रात्राद् विवशो विह्वलन्न् इव
वीक्षमाणो दिशः सर्वा नाभिजानामि किं चन
ततस् तु सागराञ् शैलान् नदीः सर्वाः सरांसि च
वनान्य् अटविदेशांश् च समीक्ष्य मतिर् आगमत्
हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान्
दक्षिणस्योदधेस् तीरे विन्ध्यो ऽयम् इति निश्चितः
आसीच् चात्राश्रमं पुण्यं सुरैर् अपि सुपूजितम्
ऋषिर् निशाकरो नाम यस्मिन्न् उग्रतपाभवत्
अष्टौ वर्षसहस्राणि तेनास्मिन्न् ऋषिणा विना
वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे
अवतीर्य च विन्ध्याग्रात् कृच्छ्रेण विषमाच् छनैः
तीक्ष्णदर्भां वसुमतीं दुःखेन पुनर् आगतः
तम् ऋषिं द्रष्टु कामो ऽस्मि दुःखेनाभ्यागतो भृशम्
जटायुषा मया चैव बहुशो ऽभिगतो हि सः
तस्याश्रमपदाभ्याशे ववुर् वाताः सुगन्धिनः
वृक्षो नापुष्पितः कश् चिद् अफलो वा न दृश्यते
उपेत्य चाश्रमं पुण्यं वृक्षमूलम् उपाश्रितः
द्रष्टुकामः प्रतीक्षे च भगवन्तं निशाकरम्
अथापश्यम् अदूरस्थम् ऋषिं ज्वलिततेजसं
कृताभिषेकं दुर्धर्षम् उपावृत्तम् उदङ्मुखम्
तम् ऋक्षाः सृमरा व्याघ्राः सिंहा नागाः सरीसृपाः
परिवार्योपगच्छन्ति दातारं प्राणिनो यथा
ततः प्राप्तम् ऋषिं ज्ञात्वा तानि सत्त्वानि वै ययुः
प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम्
ऋषिस् तु दृष्ट्वा मां तुष्टः प्रविष्टश् चाश्रमं पुनः
मुहूर्तमात्रान् निष्क्रम्य ततः कार्यम् अपृच्छत
सौम्य वैकल्यतां दृष्ट्वा रोंणां ते नावगम्यते
अग्निदग्धाव् इमौ पक्षौ त्वक् चैव व्रणिता तव
द्वौ गृध्रौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे
गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ
ज्येष्ठस् त्वं तु च संपातिर् जटायुर् अनुजस् तव
मानुषं रूपम् आस्थाय गृह्णीतां चरणौ मम
किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम्
दण्डो वायं धृतः केन सर्वम् आख्याहि पृच्छतः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0