रामायण · अध्याय 4.046
दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः
व्यादिष्टाः कपिराजेन यथोक्तं जग्मुर् अञ्जसा
सरांसि सरितः कक्षान् आकाशं नगराणि च
नदीदुर्गांस् तथा शैलान् विचिन्वन्ति समन्ततः
सुग्रीवेण समाख्यातान् सर्वे वानरयूथपाः
प्रदेशान् प्रविचिन्वन्ति सशैलवनकाननान्
विचिन्त्य दिवसं सर्वे सीताधिगमने धृताः
समायान्ति स्म मेदिन्यां निशाकालेशु वानराः
सर्वर्तुकांश् च देशेषु वानराः सफलान् द्रुमान्
आसाद्य रजनीं शय्यां चक्रुः सर्वेष्व् अहःसु ते
तद् अहः प्रथमं कृत्वा मासे प्रस्रवणं गताः
कपिराजेन संगम्य निराशाः कपियूथपाः
विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह
अदृष्ट्वा विनतः सीताम् आजगाम महाबलः
उत्तरां तु दिशं सर्वां विचित्य स महाकपिः
आगतः सह सैन्येन वीरः शतबलिस् तदा
सुषेणः पश्चिमाम् आशां विचित्य सह वानरैः
समेत्य मासे संपूर्णे सुग्रीवम् उपचक्रमे
तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च
आसीनं सह रामेण सुग्रीवम् इदम् अब्रुवन्
विचिताः पर्वताः सर्वे वनानि नगराणि च
निम्नगाः सागरान्ताश् च सर्वे जनपदास् तथा
गुहाश् च विचिताः सर्वा यास् त्वया परिकीर्तिताः
विचिताश् च महागुल्मा लताविततसंतताः
गहनेषु च देशेषु दुर्गेषु विषमेषु च
सत्त्वान्य् अतिप्रमाणानि विचितानि हतानि च
ये चैव गहना देशा विचितास् ते पुनः पुनः
उदारसत्त्वाभिजनो महात्मा स मैथिलीं द्रक्ष्यति वानरेन्द्रः
दिशं तु याम् एव गता तु सीता ताम् आस्थितो वायुसुतो हनूमान्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0