रामायण · अध्याय 4.029
गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः
वर्षरात्रोषितो रामः कामशोकाभिपीडितः
पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्
शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्
कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम्
बुद्ध्वा कालम् अतीतं च मुमोह परमातुरः
स तु संज्ञाम् उपागम्य मुहूर्तान् मतिमान् पुनः
मनःस्थाम् अपि वैदेहीं चिन्तयाम् आस राघवः
आसीनः पर्वतस्याग्रे हेमधातुविभूषिते
शारदं गगनं दृष्ट्व जगाम मनसा प्रियाम्
दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम्
सारसारवसंघुष्टं विललापार्तया गिरा
सारसारवसंनादैः सारसारवनादिनी
याश्रमे रमते बाला साद्य मे रमते कथम्
पुष्पितांश् चासनान् दृष्ट्वा काञ्चनान् इव निर्मलान्
कथं स रमते बाला पश्यन्ती माम् अपश्यती
या पुरा कलहंसानां स्वरेण कलभाषिणी
बुध्यते चारुसर्वाङ्गी साद्य मे बुध्यते कथम्
निःस्वनं चक्रवाकानां निशम्य सहचारिणाम्
पुण्डरीकविशालाक्षी कथम् एषा भविष्यति
सरांसि सरितो वापीः काननानि वनानि च
तां विना मृगशावाक्षीं चरन् नाद्य सुखं लभे
अपि तां मद्वियोगाच् च सौकुमार्याच् च भामिनीम्
न दूरं पीडयेत् कामः शरद्गुणनिरन्तरः
एवमादि नरश्रेष्ठो विललाप नृपात्मजः
विहंग इव सारङ्गः सलिलं त्रिदशेश्वरात्
ततश् चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु
ददर्श पर्युपावृत्तो लक्ष्मीवांल् लक्ष्मणो ऽग्रजम्
तं चिन्तया दुःसहया परीतं विसंज्ञम् एकं विजने मनस्वी
भ्रातुर् विषादात् परितापदीनः समीक्ष्य सौमित्रिर् उवाच रामम्
किम् आर्य कामस्य वशंगतेन किम् आत्मपौरुष्यपराभवेन
अयं सदा संहृइयते समाधिः किम् अत्र योगेन निवर्तितेन
क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम्
सहायसामर्थ्यम् अदीनसत्त्व स्वकर्महेतुं च कुरुष्व हेतुम्
न जानकी मानववंशनाथ त्वया सनाथा सुलभा परेण
न चाग्निचूडां ज्वलिताम् उपेत्य न दह्यते वीरवरार्ह कश् चित्
सलक्ष्मणं लक्ष्मणम् अप्रधृष्यं स्वभावजं वाक्यम् उवाच रामः
हितं च पथ्यं च नयप्रसक्तं ससामधर्मार्थसमाहितं च
निःसंशयं कार्यम् अवेक्षितव्यं क्रियाविशेषो ह्य् अनुवर्तितव्यः
ननु प्रवृत्तस्य दुरासदस्य कुमारकार्यस्य फलं न चिन्त्यम्
अथ पद्मपलाशाक्षीं मैथिलीम् अनुचिन्तयन्
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता
तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम्
निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः
स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः
विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज
नीलोत्पलदलश्यामः श्यामीकृत्वा दिशो दश
विमदा इव मातङ्गाः शान्तवेगाः पयोधराः
जलगर्भा महावेगाः कुटजार्जुनगन्धिनः
चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः
घनानां वारणानां च मयूराणां च लक्ष्मण
नादः प्रस्रवणानां च प्रशान्तः सहसानघ
अभिवृष्टा महामेघैर् निर्मलाश् चित्रसानवः
अनुलिप्ता इवाभान्ति गिरयश् चन्द्ररश्मिभिः
दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः
नवसंगमसव्रीडा जघनानीव योषितः
प्रसन्नसलिलाः सौम्य कुररीभिर् विनादिताः
चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः
अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज
उद्योगसमयः सौम्य पार्थिवानाम् उपस्थितः
इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज
न च पश्यामि सुग्रीवम् उद्योगं वा तथाविधम्
चत्वारो वार्षिका मासा गता वर्षशतोपमाः
मम शोकाभितप्तस्य सौम्य सीताम् अपश्यतः
प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते
कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण
अनाथो हृतराज्यो ऽयं रावणेन च धर्षितः
दीनो दूरगृहः कामी मां चैव शरणं गतः
इत्य् एतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः
अहं वानरराजस्य परिभूतः परंतप
स कालं परिसंख्याय सीतायाः परिमार्गणे
कृतार्थः समयं कृत्वा दुर्मतिर् नावबुध्यते
त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुंगवम्
मूर्खं ग्राम्य सुखे सक्तं सुग्रीवं वचनान् मम
अर्थिनाम् उपपन्नानां पूर्वं चाप्य् उपकारिणाम्
आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः
शुभं वा यदि वा पापं यो हि वाक्यम् उदीरितम्
सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः
कृतार्था ह्य् अकृतार्थानां मित्राणां न भवन्ति ये
तान् मृतान् अपि क्रव्यादः कृतघ्नान् नोपभुञ्जते
नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे
द्रष्टुम् इच्छन्ति चापस्य रूपं विद्युद्गणोपमम्
घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे
निर्घोषम् इव वज्रस्य पुनः संश्रोतुम् इच्छति
कामम् एवंगते ऽप्य् अस्य परिज्ञाते पराक्रमे
त्वत्सहायस्य मे वीर न चिन्ता स्यान् नृपात्मज
यदर्थम् अयम् आरम्भः कृतः परपुरंजय
समयं नाभिजानाति कृतार्थः प्लवगेश्वरः
वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः
व्यतीतांश् चतुरो मासान् विहरन् नावबुध्यते
सामात्यपरिषत् क्रीडन् पानम् एवोपसेवते
शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम्
उच्यतां गच्छ सुग्रीवस् त्वया वत्स महाबल
मम रोषस्य यद्रूपं ब्रूयाश् चैनम् इदं वचः
न च संकुचितः पन्था येन वाली हतो गतः
समये तिष्ठ सुग्रीवमा वालिपथम् अन्वगाः
एक एव रणे वाली शरेण निहतो मया
त्वां तु सत्याद् अतिक्रान्तं हनिष्यामि सबान्धवम्
तद् एवं विहिते कार्ये यद् धितं पुरुषर्षभ
तत् तद् ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः
कुरुष्व सत्यं मयि वानरेश्वर प्रतिश्रुतं धर्मम् अवेक्ष्य शाश्वतम्
मा वालिनं प्रेत्य गतो यमक्षयं त्वम् अद्य पश्येर् मम चोदितैः शरैः
स पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम्
चकार तीव्रां मतिम् उग्रतेजा हरीश्वरमानववंशनाथः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0