भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 4.030

4.030.001

स कामिनं दीनम् अदीनसत्त्वः शोकाभिपन्नं समुदीर्णकोपम्
नरेन्द्रसूनुर् नरदेवपुत्रं रामानुजः पूर्वजम् इत्य् उवाच

4.030.002

न वानरः स्थास्यति साधुवृत्ते न मंस्यते कार्यफलानुषङ्गान्
न भक्ष्यते वानरराज्यलक्ष्मीं तथा हि नाभिक्रमते ऽस्य बुद्धिः

4.030.003

मतिक्षयाद् ग्राम्यसुखेषु सक्तस् तव प्रसादाप्रतिकारबुद्धिः
हतो ऽग्रजं पश्यतु वालिनं स न राज्यम् एवं विगुणस्य देयम्

4.030.004

न धारये कोपम् उदीर्णवेगं निहन्मि सुग्रीवम् असत्यम् अद्य
हरिप्रवीरैः सह वालिपुत्रो नरेन्द्रपत्न्या विचयं करोतु

4.030.005

तम् आत्तबाणासनम् उत्पतन्तं निवेदितार्थं रणचण्डकोपम्
उवच रामः परवीरहन्ता स्ववेक्षितं सानुनयं च वाक्यम्

4.030.006

न हि वै त्वद्विधो लोके पापम् एवं समाचरेत्
पापम् आर्येण यो हन्ति स वीरः पुरुषोत्तमः

4.030.007

नेदम् अद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण
तां प्रीतिम् अनुवर्तस्व पूर्ववृत्तं च संगतम्

4.030.008

सामोपहितया वाचा रूक्षाणि परिवर्जयन्
वक्तुम् अर्हसि सुग्रीवं व्यतीतं कालपर्यये

4.030.009

सोऽ ग्रजेनानुशिष्टार्थो यथावत् पुरुषर्षभः
प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा

4.030.010

ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः
लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः

4.030.011

शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः
प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमान् इव

4.030.012

यथोक्तकारी वचनम् उत्तरं चैव सोत्तरम्
बृहस्पतिसमो बुद्ध्या मत्त्वा रामानुजस् तदा

4.030.013

कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः
प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस् तदा

4.030.014

सालतालाश्वकर्णांश् च तरसा पातयन् बहून्
पर्यस्यन् गिरिकूटानि द्रुमान् अन्यांश् च वेगतः

4.030.015

शिलाश् च शकलीकुर्वन् पद्भ्यां गज इवाशुगः
दूरम् एकपदं त्यक्त्वा ययौ कार्यवशाद् द्रुतम्

4.030.016

ताम् अपश्यद् बलाकीर्णां हरिराजमहापुरीम्
दुर्गाम् इक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे

4.030.017

रोषात् प्रस्फुरमाणौष्ठः सुग्रीवं प्रति कल्ष्मणः
ददर्श वानरान् भीमान् किष्किन्धाया बहिश्चरान्

4.030.018

शैलशृङ्गाणि शतशः प्रवृद्धांश् च महीरुहान्
जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे

4.030.019

तान् गृहीतप्रहरणान् हरीन् दृष्ट्वा तु लक्ष्मणः
बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः

4.030.020

तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवंगमाः
कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः

4.030.021

ततः सुग्रीवभवनं प्रविश्य हरिपुंगवाः
क्रोधम् आगमनं चैव लक्ष्मणस्य न्यवेदयन्

4.030.022

तारया सहितः कामी सक्तः कपिवृषो रहः
न तेषां कपिवीराणां शुश्राव वचनं तदा

4.030.023

ततः सचिवसंदिष्टा हरयो रोमहर्षणाः
गिरिकुञ्जरमेघाभा नगर्या निर्ययुस् तदा

4.030.024

नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः
सर्वे शार्दूलदर्पाश् च सर्वे च विकृताननाः

4.030.025

दशनागबलाः के चित् के चिद् दशगुणोत्तराः
के चिन् नागसहस्रस्य बभूवुस् तुल्यविक्रमाः

4.030.026

कृत्स्नां हि कपिभिर् व्याप्तां द्रुमहस्तैर् महाबलैः
अपश्यल् लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदम्

4.030.027

ततस् ते हरयः सर्वे प्राकारपरिखान्तरात्
निष्क्रम्योदग्रसत्त्वास् तु तस्थुर् आविष्कृतं तदा

4.030.028

सुग्रीवस्य प्रमादं च पूर्वजं चार्तम् आत्मवान्
बुद्ध्वा कोपवशं वीरः पुनर् एव जगाम सः

4.030.029

स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः
बभूव नरशार्दूलसधूम इव पावकः

4.030.030

बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान्
स्वतेजोविषसंघातः पञ्चास्य इव पन्नगः

4.030.031

तं दीप्तम् इव कालाग्निं नागेन्द्रम् इव कोपितम्
समासाद्याङ्गदस् त्रासाद् विषादम् अगमद् भृशम्

4.030.032

सो ऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः
सुग्रीवः कथ्यतां वत्स ममागमनम् इत्य् उत

4.030.033

एष रामानुजः प्राप्तस् त्वत्सकाशम् अरिंदमः
भ्रातुर् व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः

4.030.034

लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टो ऽङ्गदो ऽब्रवीत्
पितुः समीपम् आगम्य सौमित्रिर् अयम् आगतः

4.030.035

ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम्
सिंहनादं समं चक्रुर् लक्ष्मणस्य समीपतः

4.030.036

तेन शब्देन महता प्रत्यबुध्यत वानरः
मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः

4.030.037

अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ
मन्त्रिणो वानरेन्द्रस्य संमतोदारदर्शिनौ

4.030.038

प्लक्षश् चैव प्रभावश् च मन्त्रिणाव् अर्थधर्मयोः
वक्तुम् उच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः

4.030.039

प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः
आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम्

4.030.040

सत्यसंधौ महाभागौ भ्रातरौ रामलक्ष्मणौ
वयस्य भावं संप्राप्तौ राज्यार्हौ राज्यदायिनौ

4.030.041

तयोर् एको धनुष्पाणिर् द्वारि तिष्ठति लक्ष्मणः
यस्य भीताः प्रवेपन्ते नादान् मुञ्चन्ति वानराः

4.030.042

स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः
व्यवसाय रथः प्राप्तस् तस्य रामस्य शासनात्

4.030.043

तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः सह बन्धुभिः
राजंस् तिष्ठ स्वसमये भव सत्यप्रतिश्रवः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc