रामायण · अध्याय 4.004
ततः प्रहृष्टो हनुमान् कृत्यवान् इति तद् वचः
श्रुत्वा मधुरसंभाषं सुग्रीवं मनसा गतः
भव्यो राज्यागमस् तस्य सुग्रीवस्य महात्मनः
यद् अयं कृत्यवान् प्राप्तः कृत्यं चैतद् उपागतम्
ततः परमसंहृष्टो हनूमान् प्लवगर्षभः
प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः
किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम्
आगतः सानुजो दुर्गं नानाव्यालमृगायुतम्
तस्य तद् वचनं श्रुत्वा लक्ष्मणो रामचोदितः
आचचक्षे महात्मानं रामं दशरथात्मजम्
राजा दशरथो नाम द्युतिमान् धर्मवत्सलः
तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः
शरण्यः सर्वभूतानां पितुर् निर्देशपारगः
वीरो दशरथस्यायं पुत्राणां गुणवत्तरः
राज्याद् भ्रष्टो वने वस्तुं मया सार्धम् इहागतः
भार्यया च महातेजाः सीतयानुगतो वशी
दिनक्षये महातेजाः प्रभयेव दिवाकरः
अहम् अस्यावरो भ्राता गुणैर् दास्यम् उपागतः
कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः
सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः
ऐश्वर्येण विहीनस्य वनवासाश्रितस्य च
रक्षसापहृता भार्या रहिते कामरूपिणा
तच् च न ज्ञायते रक्षः पत्नी येनास्य सा हृता
दनुर् नाम श्रियः पुत्रः शापाद् राक्षसतां गतः
आख्यातस् तेन सुग्रीवः समर्थो वानराधिपः
स ज्ञास्यति महावीर्यस् तव भार्यापहारिणम्
एवम् उक्त्वा दनुः स्वर्गं भ्राजमानो गतः सुखम्
एतत् ते सर्वम् आख्यातं याथातथ्येन पृच्छतः
अहं चैव हि रामश् च सुग्रीवं शरणं गतौ
एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः
लोकनाथः पुरा भूत्वा सुग्रीवं नाथम् इच्छति
शोकाभिभूते रामे तु शोकार्ते शरणं गते
कर्तुम् अर्हति सुग्रीवः प्रसादं सह यूथपैः
एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम्
हनूमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः
ईदृशा बुद्धिसंपन्ना जितक्रोधा जितेन्द्रियाः
द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनम् आगताः
स हि राज्याच् च विभ्रष्टः कृतवैरश् च वालिना
हृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम्
करिष्यति स साहाय्यं युवयोर् भास्करात्मजः
सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे
इत्य् एवम् उक्त्वा हनुमाञ् श्लक्ष्णं मधुरया गिरा
बभाषे सो ऽभिगच्छामः सुग्रीवम् इति राघवम्
एवं ब्रुवाणं धर्मात्मा हनूमन्तं स लक्ष्मणः
प्रतिपूज्य यथान्यायम् इदं प्रोवाच राघवम्
कपिः कथयते हृष्टो यथायं मारुतात्मजः
कृत्यवान् सो ऽपि संप्राप्तः कृतकृत्यो ऽसि राघव
प्रसन्नमुखवर्णश् च व्यक्तं हृष्टश् च भाषते
नानृतं वक्ष्यते वीरो हनूमान् मारुतात्मजः
ततः स तु महाप्राज्ञो हनूमान् मारुतात्मजः
जगामादाय तौ वीरौ हरिराजाय राघवौ
स तु विपुल यशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत् प्रहृष्टः
गिरिवरम् उरुविक्रमः प्रयातः स शुभमतिः सह रामलक्ष्मणाभ्याम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0