रामायण · अध्याय 4.003
वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः
पर्वताद् ऋश्यमूकात् तु पुप्लुवे यत्र राघवौ
स तत्र गत्वा हनुमान् बलवान् वानरोत्तमः
उपचक्राम तौ वाग्भिर् मृद्वीभिः सत्यविक्रमः
स्वकं रूपं परित्यज्य भिक्षुरूपेण वानरः
आबभाषे च तौ वीरौ यथावत् प्रशशंस च
राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ
देशं कथम् इमं प्राप्तौ भवन्तौ वरवर्णिनौ
त्रासयन्तौ मृगगणान् अन्यांश् च वनचारिणः
पम्पातीररुहान् वृक्षान् वीक्षमाणौ समन्ततः
इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ
धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ
सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ
शक्रचापनिभे चापे प्रगृह्य विपुलैर् भुजैः
श्रीमन्तौ रूपसंपन्नौ वृषभश्रेष्ठविक्रमौ
हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ
प्रभया पर्वतेन्द्रो ऽयं युवयोर् अवभासितः
राज्यार्हाव् अमरप्रख्यौ कथं देशम् इहागतौ
पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ
अन्योन्यसदृशौ वीरौ देवलोकाद् इवागतौ
यदृच्छयेव संप्राप्तौ चन्द्रसूर्यौ वसुंधराम्
विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ
सिंहस्कन्धौ महासत्त्वौ समदाव् इव गोवृषौ
आयताश् च सुवृत्ताश् च बाहवः परिघोत्तमाः
सर्वभूषणभूषार्हाः किम् अर्थं न विभूषितः
उभौ योग्याव् अहं मन्ये रक्षितुं पृथिवीम् इमाम्
ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम्
इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने
प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते
संपूर्णा निशितैर् बाणैर् तूणाश् च शुभदर्शनाः
जीवितान्तकरैर् घोरैर् ज्वलद्भिर् इव पन्नगैः
महाप्रमाणौ विपुलौ तप्तहाटकभूषितौ
खड्गाव् एतौ विराजेते निर्मुक्तभुजगाव् इव
एवं मां परिभाषन्तं कस्माद् वै नाभिभाषथः
सुग्रीवो नाम धर्मात्मा कश् चिद् वानरयूथपः
वीरो विनिकृतो भ्रात्रा जगद् भ्रमति दुःखितः
प्राप्तो ऽहं प्रेषितस् तेन सुग्रीवेण महात्मना
राज्ञा वानरमुख्यानां हनुमान् नाम वानरः
युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यम् इच्छति
तस्य मां सचिवं वित्तं वानरं पवनात्मजम्
भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया
ऋश्यमूकाद् इह प्राप्तं कामगं कामरूपिणम्
एवम् उक्त्वा तु हनुमांस् तौ वीरौ रामलक्ष्मणौ
वाक्यज्ञौ वाक्यकुशलः पुनर् नोवाच किं चन
एतच् छ्रुत्वा वचस् तस्य रामो लक्ष्मणम् अब्रवीत्
प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम्
सचिवो ऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः
तम् एव काङ्क्षमाणस्य ममान्तिकम् उपागतः
तम् अभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम्
वाक्यज्ञं मधुरैर् वाक्यैः स्नेहयुक्तम् अरिंदमम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0