रामायण · अध्याय 3.071
दिवं तु तस्यां यातायां शबर्यां स्वेन कर्मणा
लक्ष्मणेन सह भ्रात्रा चिन्तयाम् आस राघवः
चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम्
हितकारिणम् एकाग्रं लक्ष्मणं राघवो ऽब्रवीत्
दृष्टो ऽयम् आश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम्
विश्वस्तमृगशार्दूलो नानाविहगसेवितः
सप्तानां च समुद्राणाम् एषु तीर्थेषु लक्ष्मण
उपस्पृष्टं च विधिवत् पितरश् चापि तर्पिताः
प्रनष्टम् अशुभं यत् तत् कल्याणं समुपस्थितम्
तेन त्व् एतत् प्रहृष्टं मे मनो लक्ष्मण संप्रति
हृदये हि नरव्याघ्र शुभम् आविर्भविष्यति
तद् आगच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम्
ऋश्यमूको गिरिर् यत्र नातिदूरे प्रकाशते
यस्मिन् वसति धर्मात्मा सुग्रीवो ऽंशुमतः सुतः
नित्यं वालिभयात् त्रस्तश् चतुर्भिः सह वानरैः
अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम्
तदधीनं हि मे सौम्य सीतायाः परिमार्गणम्
इति ब्रुवाणं तं रामं सौमित्रिर् इदम् अब्रवीत्
गच्छावस् त्वरितं तत्र ममापि त्वरते मनः
आश्रमात् तु ततस् तस्मान् निष्क्रम्य स विशां पतिः
आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः
समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम्
कोयष्टिभिश् चार्जुनकैः शतपत्रैश् च कीचकैः
एतैश् चान्यैश् च विविधैर् नादितं तद् वनं महत्
स रामो विधिवान् वृक्षान् सरांसि विविधानि च
पश्यन् कामाभिसंतप्तो जगाम परमं ह्रदम्
स ताम् आसाद्य वै रामो दूराद् उदकवाहिनीम्
मतङ्गसरसं नाम ह्रदं समवगाहत
स तु शोकसमाविष्टो रामो दशरथात्मजः
विवेश नलिनीं पम्पां पङ्कजैश् च समावृताम्
तिलकाशोकपुंनागबकुलोद्दाल काशिनीम्
रम्योपवनसंबाधां पद्मसंपीडितोदकाम्
स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसंतताम्
मत्स्यकच्छपसंबाधां तीरस्थद्रुमशोभिताम्
सखीभिर् इव युक्ताभिर् लताभिर् अनुवेष्टिताम्
किंनरोरगगन्धर्वयक्षराक्षससेविताम्
नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम्
पद्मैः सौगन्धिकैस् ताम्रां शुक्लां कुमुदमण्डलैः
नीलां कुवलयोद्धातैर् बहुवर्णां कुथाम् इव
अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम्
पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम्
स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह
विललाप च तेजस्वी कामाद् दशरथात्मजः
तिलकैर् बीजपूरैश् च वटैः शुक्लद्रुमैस् तथा
पुष्पितैः करवीरैश् च पुंनागैश् च सुपुष्पितैः
मालतीकुन्दगुल्मैश् च भण्डीरैर् निचुलैस् तथा
अशोकैः सप्तपर्णैश् च केतकैर् अतिमुक्तकैः
अन्यैश् च विविधैर् वृक्षैः प्रमदेवोपशोभिताम्
अस्यास् तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः
ऋश्यमूक इति ख्यातश् चित्रपुष्पितकाननः
हरिर् ऋक्षरजो नाम्नः पुत्रस् तस्य महात्मनः
अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः
सुग्रीवम् अभिगच्छ त्वं वानरेन्द्रं नरर्षभ
इत्य् उवाच पुनर् वाक्यं लक्ष्मणं सत्यविक्रमम्
ततो महद् वर्त्म च दूरसंक्रमं क्रमेण गत्वा प्रविलोकयन् वनम्
ददर्श पम्पां शुभदर्श काननाम् अनेकनानाविधपक्षिसंकुलाम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0