भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.070

3.070.001

तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने
आतस्थतुर् दिशं गृह्य प्रतीचीं नृवरात्मजौ

3.070.002

तौ शैलेष्व् आचितानेकान् क्षौद्रकल्पफलद्रुमान्
वीक्षन्तौ जग्मतुर् द्रष्टुं सुग्रीवं रामलक्ष्मणौ

3.070.003

कृत्वा च शैलपृष्ठे तु तौ वासं रघुनन्दनौ
पम्पायाः पश्चिमं तीरं राघवाव् उपतस्थतुः

3.070.004

तौ पुष्करिण्याः पम्पायास् तीरम् आसाद्य पश्चिमम्
अपश्यतां ततस् तत्र शबर्या रम्यम् आश्रमम्

3.070.005

तौ तम् आश्रमम् आसाद्य द्रुमैर् बहुभिर् आवृतम्
सुरम्यम् अभिवीक्षन्तौ शबरीम् अभ्युपेयतुः

3.070.006

तौ तु दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः
पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः

3.070.007

ताम् उवाच ततो रामः श्रमणीं संशितव्रताम्
कच्चित् ते निर्जिता विघ्नाः कच्चित् ते वर्धते तपः

3.070.008

कच्चित् ते नियतः कोप आहारश् च तपोधने
कच्चित् ते नियमाः प्राप्ताः कच्चित् ते मनसः सुखम्
कच्चित् ते गुरुशुश्रूषा सफला चारुभाषिणि

3.070.009

रामेण तापसी पृष्ठा सा सिद्धा सिद्धसंमता
शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता

3.070.010

चित्रकूटं त्वयि प्राप्ते विमानैर् अतुलप्रभैः
इतस् ते दिवम् आरूढा यान् अहं पर्यचारिषम्

3.070.011

तैश् चाहम् उक्ता धर्मज्ञैर् महाभागैर् महर्षिभिः
आगमिष्यति ते रामः सुपुण्यम् इमम् आश्रमम्

3.070.012

स ते प्रतिग्रहीतव्यः सौमित्रिसहितो ऽतिथिः
तं च दृष्ट्वा वरांल् लोकान् अक्षयांस् त्वं गमिष्यसि

3.070.013

मया तु विविधं वन्यं संचितं पुरुषर्षभ
तवार्थे पुरुषव्याघ्र पम्पायास् तीरसंभवम्

3.070.014

एवम् उक्तः स धर्मात्मा शबर्या शबरीम् इदम्
राघवः प्राह विज्ञाने तां नित्यम् अबहिष्कृताम्

3.070.015

दनोः सकाशात् तत्त्वेन प्रभावं ते महात्मनः
श्रुतं प्रत्यक्षम् इच्छामि संद्रष्टुं यदि मन्यसे

3.070.016

एतत् तु वचनं श्रुत्वा रामवक्त्राद् विनिःसृतम्
शबरी दर्शयाम् आस ताव् उभौ तद् वनं महत्

3.070.017

पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम्
मतङ्गवनम् इत्य् एव विश्रुतं रघुनन्दन

3.070.018

इह ते भावितात्मानो गुरवो मे महाद्युते
जुहवांश् चक्रिरे तीर्थं मन्त्रवन् मन्त्रपूजितम्

3.070.019

इयं प्रत्यक् स्थली वेदी यत्र ते मे सुसत्कृताः
पुष्पोपहारं कुर्वन्ति श्रमाद् उद्वेपिभिः करैः

3.070.020

तेषां तपः प्रभावेन पश्याद्यापि रघूत्तम
द्योतयन्ति दिशः सर्वाः श्रिया वेद्यो ऽतुलप्रभाः

3.070.021

अशक्नुवद्भिस् तैर् गन्तुम् उपवासश्रमालसैः
चिन्तिते ऽभ्यागतान् पश्य समेतान् सप्त सागरान्

3.070.022

कृताभिषेकैस् तैर् न्यस्ता वल्कलाः पादपेष्व् इह
अद्यापि न विशुष्यन्ति प्रदेशे रघुनन्दन

3.070.023

कृत्स्नं वनम् इदं दृष्टं श्रोतव्यं च श्रुतं त्वया
तद् इच्छाम्य् अभ्यनुज्ञाता त्यक्तुम् एतत् कलेवरम्

3.070.024

तेषाम् इच्छाम्य् अहं गन्तुं समीपं भावितात्मनाम्
मुनीनाम् आश्रंमो येषाम् अहं च परिचारिणी

3.070.025

धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः
अनुजानामि गच्छेति प्रहृष्टवदनो ऽब्रवीत्

3.070.026

अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने
ज्वलत्पावकसंकाशा स्वर्गम् एव जगाम सा

3.070.027

यत्र ते सुकृतात्मानो विहरन्ति महर्षयः
तत् पुण्यं शबरीस्थानं जगामात्मसमाधिना

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc