भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.069

3.069.001

निदर्शयित्वा रामाय सीतायाः प्रतिपादने
वाक्यम् अन्वर्थम् अर्थज्ञः कबन्धः पुनर् अब्रवीत्

3.069.002

एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः
प्रतीचीं दिशम् आश्रित्य प्रकाशन्ते मनोरमाः

3.069.003

जम्बूप्रियालपनसाः प्लक्षन्यग्रोधतिन्दुकाः
अश्वत्थाः कर्णिकाराश् च चूताश् चान्ये च पादपाः

3.069.004

तान् आरुह्याथ वा भूमौ पातयित्वा च तान् बलात्
फलान्य् अमृतकल्पानि भक्षयन्तौ गमिष्यथः

3.069.005

चङ्क्रमन्तौ वरान् देशाञ् शैलाच् छैलं वनाद् वनम्
ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः

3.069.006

अशर्कराम् अविभ्रंशां समतीर्थम् अशैवलाम्
राम संजातवालूकां कमलोत्पलशोभिताम्

3.069.007

तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश् चैव राघव
वल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः

3.069.008

नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः
घृतपिण्डोपमान् स्थूलांस् तान् द्विजान् भक्षयिष्यथः

3.069.009

रोहितान् वक्रतुण्डांश् च नलमीनांश् च राघव
पम्पायाम् इषुभिर् मत्स्यांस् तत्र राम वरान् हतान्

3.069.010

निस्त्वक्पक्षान् अयस्तप्तान् अकृशान् एककण्टकान्
तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति

3.069.011

भृशं ते खादतो मत्स्यान् पम्पायाः पुष्पसंचये
पद्मगन्धि शिवं वारि सुखशीतम् अनामयम्

3.069.012

उद्धृत्य स तदाक्लिष्टं रूप्यस्फटिकसंनिभम्
अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति

3.069.013

स्थूलान् गिरिगुहाशय्यान् वराहान् वनचारिणः
अपां लोभाद् उपावृत्तान् वृषभान् इव नर्दतः
रूपान्वितांश् च पम्पायां द्रक्ष्यसि त्वं नरोत्तम

3.069.014

सायाह्ने विचरन् राम विटपी माल्यधारिणः
शीतोदकं च पम्पायां दृष्ट्वा शोकं विहास्यसि

3.069.015

सुमनोभिश् चितांस् तत्र तिलकान् नक्तमालकान्
उत्पलानि च फुल्लानि पङ्कजानि च राघव

3.069.016

न तानि कश् चिन् माल्यानि तत्रारोपयिता नरः
मतङ्गशिष्यास् तत्रासन्न् ऋषयः सुसमाहितः

3.069.017

तेषां भाराभितप्तानां वन्यम् आहरतां गुरोः
ये प्रपेतुर् महीं तूर्णं शरीरात् स्वेदबिन्दवः

3.069.018

तानि माल्यानि जातानि मुनीनां तपसा तदा
स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव

3.069.019

तेषाम् अद्यापि तत्रैव दृश्यते परिचारिणी
श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी

3.069.020

त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम्
दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति

3.069.021

ततस् तद् राम पम्पायास् तीरम् आश्रित्य पश्चिमम्
आश्रमस्थानम् अतुलं गुह्यं काकुत्स्थ पश्यसि

3.069.022

न तत्राक्रमितुं नागाः शक्नुवन्ति तम् आश्रमम्
ऋषेस् तस्य मतङ्गस्य विधानात् तच् च काननम्

3.069.023

तस्मिन् नन्दनसंकाशे देवारण्योपमे वने
नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः

3.069.024

ऋष्यमूकस् तु पम्पायाः पुरस्तात् पुष्पितद्रुमः
सुदुःखारोहणो नाम शिशुनागाभिरक्षितः
उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः

3.069.025

शयानः पुरुषो राम तस्य शैलस्य मूर्धनि
यत् स्वप्ने लभते वित्तं तत् प्रबुद्धो ऽधिगच्छति

3.069.026

न त्व् एनं विषमाचारः पापकर्माधिरोहति
तत्रैव प्रहरन्त्य् एनं सुप्तम् आदाय राक्षसाः

3.069.027

ततो ऽपि शिशुनागानाम् आक्रन्दः श्रूयते महान्
क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम्

3.069.028

सिक्ता रुधिरधाराभिः संहत्य परमद्विपाः
प्रचरन्ति पृथक् कीर्णा मेघवर्णास् तरस्विनः

3.069.029

ते तत्र पीत्वा पानीयं विमलं शीतम् अव्ययम्
निवृत्ताः संविगाहन्ते वनानि वनगोचराः

3.069.030

राम तस्य तु शैलस्य महती शोभते गुहा
शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम्

3.069.031

तस्या गुहायाः प्राग्द्वारे महाञ् शीतोदको ह्रदः
बहुमूलफलो रम्यो नानानगसमावृतः

3.069.032

तस्यां वसति सुग्रीवश् चतुर्भिः सह वानरैः
कदा चिच् छिखरे तस्य पर्वतस्यावतिष्ठते

3.069.033

कबन्धस् त्व् अनुशास्यैवं ताव् उभौ रामलक्ष्मणौ
स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान्

3.069.034

तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ
प्रस्थितौ त्वं व्रजस्वेति वाक्यम् ऊचतुर् अन्तिकात्

3.069.035

गम्यतां कार्यसिद्ध्यर्थम् इति ताव् अब्रवीच् च सः
सुप्रीतौ ताव् अनुज्ञाप्य कबन्धः प्रस्थितस् तदा

3.069.036

स तत् कबन्धः प्रतिपद्य रूपं वृतः श्रिया भास्करतुल्यदेहः
निदर्शयन् रामम् अवेक्ष्य खस्थः सख्यं कुरुष्वेति तदाभ्युवाच

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc