रामायण · अध्याय 3.068
एवम् उक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ
गिरिप्रदरम् आसाद्य पावकं विससर्जतुः
लक्ष्मणस् तु महोल्काभिर् ज्वलिताभिः समन्ततः
चिताम् आदीपयाम् आस सा प्रजज्वाल सर्वतः
तच् छरीरं कबन्धस्य घृतपिण्डोपमं महत्
मेदसा पच्यमानस्य मन्दं दहति पावक
स विधूय चिताम् आशु विधूमो ऽग्निर् इवोत्थितः
अरजे वाससी विभ्रन् मालां दिव्यां महाबलः
ततश् चिताया वेगेन भास्वरो विरजाम्बरः
उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः
विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे
प्रभया च महातेजा दिशो दश विराजयन्
सो ऽन्तरिक्षगतो रामं कबन्धो वाक्यम् अब्रवीत्
शृणु राघव तत्त्वेन यथा सीमाम् अवाप्स्यसि
राम षड् युक्तयो लोके याभिः सर्वं विमृश्यते
परिमृष्टो दशान्तेन दशाभागेन सेव्यते
दशाभागगतो हीनस् त्वं राम सहलक्ष्मणः
यत् कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम्
तद् अवश्यं त्वया कार्यः स सुहृत् सुहृदां वर
अकृत्वा न हि ते सिद्धिम् अहं पश्यामि चिन्तयन्
श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः
भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना
ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभिते
निवसत्य् आत्मवान् वीरश् चतुर्भिः सह वानरैः
वयस्यं तं कुरु क्षिप्रम् इतो गत्वाद्य राघव
अद्रोहाय समागम्य दीप्यमाने विभावसौ
न च ते सो ऽवमन्तव्यः सुग्रीवो वानराधिपः
कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान्
शक्तौ ह्य् अद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम्
कृतार्थो वाकृतार्थो वा कृत्यं तव करिष्यति
स ऋक्षरजसः पुत्रः पम्पाम् अटति शङ्कितः
भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः
संनिधायायुधं क्षिप्रम् ऋष्यमूकालयं कपिम्
कुरु राघव सत्येन वयस्यं वनचारिणम्
स हि स्थानानि सर्वाणि कार्त्स्न्येन कपिकुञ्जरः
नरमांसाशिनां लोके नैपुण्याद् अधिगच्छति
न तस्याविदितं लोके किं चिद् अस्ति हि राघव
यावत् सूर्यः प्रतपति सहस्रांशुर् अरिंदम
स नदीर् विपुलाञ् शैलान् गिरिदुर्गाणि कन्दरान्
अन्विष्य वानरैः सार्धं पत्नीं ते ऽधिगमिष्यति
वानरांश् च महाकायान् प्रेषयिष्यति राघव
दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम्
स मेरुशृङ्गाग्रगताम् अनिन्दितां प्रविश्य पातालतले ऽपि वाश्रिताम्
प्लवंगमानां प्रवरस् तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0