भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.067

3.067.001

पुरा राम महाबाहो महाबलपराक्रम
रूपम् आसीन् ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम्
यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः

3.067.002

सो ऽहं रूपम् इदं कृत्वा लोकवित्रासनं महत्
ऋषीन् वनगतान् राम त्रासयामि ततस् ततः

3.067.003

ततः स्थूलशिरा नाम महर्षिः कोपितो मया
संचिन्वन् विविधं वन्यं रूपेणानेन धर्षितः

3.067.004

तेनाहम् उक्तः प्रेक्ष्यैवं घोरशापाभिधायिना
एतद् एव नृशंसं ते रूपम् अस्तु विगर्हितम्

3.067.005

स मया याचितः क्रुद्धः शापस्यान्तो भवेद् इति
अभिशापकृतस्येति तेनेदं भाषितं वचः

3.067.006

यदा छित्त्वा भुजौ रामस् त्वां दहेद् विजने वने
तदा त्वं प्राप्स्यसे रूपं स्वम् एव विपुलं शुभम्

3.067.007

श्रिया विराजितं पुत्रं दनोस् त्वं विद्धि लक्ष्मण
इन्द्रकोपाद् इदं रूपं प्राप्तम् एवं रणाजिरे

3.067.008

अहं हि तपसोग्रेण पितामहम् अतोषयम्
दीर्घम् आयुः स मे प्रादात् ततो मां विभ्रमो ऽस्पृशत्

3.067.009

दीर्घम् आयुर् मया प्राप्तं किं मे शक्रः करिष्यति
इत्य् एवं बुद्धिम् आस्थाय रणे शक्रम् अधर्षयम्

3.067.010

तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा
सक्थिनी च शिरश् चैव शरीरे संप्रवेशितम्

3.067.011

स मया याच्यमानः सन्न् आनयद् यमसादनम्
पितामहवचः सत्यं तद् अस्त्व् इति ममाब्रवीत्

3.067.012

अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः
वज्रेणाभिहतः कालं सुदीर्घम् अपि जीवितुम्

3.067.013

एवम् उक्तस् तु मे शक्रो बाहू योजनम् आयतौ
प्रादाद् आस्यं च मे कुक्षौ तीक्ष्णदंष्ट्रम् अकल्पयत्

3.067.014

सो ऽहं भुजाभ्यां दीर्घाभ्यां समाकृष्य वनेचरान्
सिंहद्विपमृगव्याघ्रान् भक्षयामि समन्ततः

3.067.015

स तु माम् अब्रवीद् इन्द्रो यदा रामः सलक्ष्मणः
छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि

3.067.016

स त्वं रामो ऽसि भद्रं ते नाहम् अन्येन राघव
शक्यो हन्तुं यथातत्त्वम् एवम् उक्तं महर्षिणा

3.067.017

अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ
मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतो ऽग्निना

3.067.018

एवम् उक्तस् तु धर्मात्मा दनुना तेन राघवः
इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः

3.067.019

रावणेन हृता सीता मम भार्या यशस्विनी
निष्क्रान्तस्य जनस्थानात् सह भ्रात्रा यथासुखम्

3.067.020

नाममात्रं तु जानामि न रूपं तस्य रक्षसः
निवासं वा प्रभावं वा वयं तस्य न विद्महे

3.067.021

शोकार्तानाम् अनाथानाम् एवं विपरिधावताम्
कारुण्यं सदृशं कर्तुम् उपकारे च वर्तताम्

3.067.022

काष्ठान्य् आनीय शुष्काणि काले भग्नानि कुञ्जरैः
भक्ष्यामस् त्वां वयं वीर श्वभ्रे महति कल्पिते

3.067.023

स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता
कुरु कल्याणम् अत्यर्थं यदि जानासि तत्त्वतः

3.067.024

एवम् उक्तस् तु रामेण वाक्यं दनुर् अनुत्तमम्
प्रोवाच कुशलो वक्तुं वक्तारम् अपि राघवम्

3.067.025

दिव्यम् अस्ति न मे ज्ञानं नाभिजानामि मैथिलीम्
यस् तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपम् आस्थितः

3.067.026

अदग्धस्य हि विज्ञातुं शक्तिर् अस्ति न मे प्रभो
राक्षसं तं महावीर्यं सीता येन हृता तव

3.067.027

विज्ञानं हि महद् भ्रष्टं शापदोषेण राघव
स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम्

3.067.028

किं तु यावन् न यात्य् अस्तं सविता श्रान्तवाहनः
तावन् माम् अवटे क्षिप्त्वा दह राम यथाविधि

3.067.029

दग्धस् त्वयाहम् अवटे न्यायेन रघुनन्दन
वक्ष्यामि तम् अहं वीर यस् तं ज्ञास्यति राक्षसं

3.067.030

तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव
कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः

3.067.031

न हि तस्यास्त्य् अविज्ञातं त्रिषु लोकेषु राघव
सर्वान् परिसृतो लोकान् पुरा वै कारणान्तरे

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc