रामायण · अध्याय 3.066
तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ
बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यम् अब्रवीत्
तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ
आहारार्थं तु संदिष्टौ दैवेन गतचेतसौ
तच् छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा
उवाचार्तिसमापन्नो विक्रमे कृतनिश्चयः
त्वां च मां च पुरा तूर्णम् आदत्ते राक्षसाधमः
तस्माद् असिभ्याम् अस्याशु बाहू छिन्दावहे गुरू
ततस् तौ देशकालज्ञौ खड्गाभ्याम् एव राघवौ
अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशयोः
दक्षिणो दक्षिणं बाहुम् असक्तम् असिना ततः
चिच्छेद रामो वेगेन सव्यं वीरस् तु लक्ष्मणः
स पपात महाबाहुश् छिन्नबाहुर् महास्वनः
खं च गां च दिशश् चैव नादयञ् जलदो यथा
स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः
दीनः पप्रच्छ तौ वीरौ कौ युवाम् इति दानवः
इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः
शशंस तस्य काकुत्स्थं कबन्धस्य महाबलः
अयम् इक्ष्वाकुदायादो रामो नाम जनैः श्रुतः
अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम्
अस्य देवप्रभावस्य वसतो विजने वने
रक्षसापहृता भार्या याम् इच्छन्ताव् इहागतौ
त्वं तु को वा किमर्थं वा कबन्ध सदृशो वने
आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे
एवम् उक्तः कबन्धस् तु लक्ष्मणेनोत्तरं वचः
उवाच परमप्रीतस् तद् इन्द्रवचनं स्मरन्
स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्य् अहम्
दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ
विरूपं यच् च मे रूपं प्राप्तं ह्य् अविनयाद् यथा
तन् मे शृणु नरव्याघ्र तत्त्वतः शंसतस् तव
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0