रामायण · अध्याय 3.065
कृत्वैवम् उदकं तस्मै प्रस्थितौ राघवौ तदा
अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर् दिशम्
तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ
अविप्रहतम् ऐक्ष्वाकौ पन्थानं प्रतिपेदतुः
गुल्मैर् वृक्षैश् च बहुभिर् लताभिश् च प्रवेष्टितम्
आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम्
व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम्
सुभीमं तन् महारण्यं व्यतियातौ महाबलौ
ततः परं जनस्थानात् त्रिक्रोशं गम्य राघवौ
क्रौञ्चारण्यं विविशतुर् गहनं तौ महौजसौ
नानामेघघनप्रख्यं प्रहृष्टम् इव सर्वतः
नानावर्णैः शुभैः पुष्पैर् मृगपक्षिगणैर् युतम्
दिदृक्षमाणौ वैदेहीं तद् वनं तौ विचिक्यतुः
तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ
लक्ष्मणस् तु महातेजाः सत्त्ववाञ् शीलवाञ् शुचिः
अब्रवीत् प्राञ्जलिर् वाक्यं भ्रातरं दीप्ततेजसं
स्पन्दते मे दृढं बाहुर् उद्विग्नम् इव मे मनः
प्रायशश् चाप्य् अनिष्टानि निमित्तान्य् उपलक्षये
तस्मात् सज्जीभवार्य त्वं कुरुष्व वचनं हितम्
ममैव हि निमित्तानि सद्यः शंसन्ति संभ्रमम्
एष वञ्चुलको नाम पक्षी परमदारुणः
आवयोर् विजयं युद्धे शंसन्न् इव विनर्दति
तयोर् अन्वेषतोर् एवं सर्वं तद् वनम् ओजसा
संजज्ञे विपुलः शब्दः प्रभञ्जन्न् इव तद् वनम्
संवेष्टितम् इवात्यर्थं गहनं मातरिश्वना
वनस्य तस्य शब्दो ऽभूद् दिवम् आपूरयन्न् इव
तं शब्दं काङ्क्षमाणस् तु रामः कक्षे सहानुजः
ददर्श सुमहाकायं राक्षसं विपुलोरसं
आसेदतुस् ततस् तत्र ताव् उभौ प्रमुखे स्थितम्
विवृद्धम् अशिरोग्रीवं कबन्धम् उदरे मुखम्
रोमभिर् निचितैस् तीक्ष्णैर् महागिरिम् इवोच्छ्रितम्
नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम्
महापक्ष्मेण पिङ्गेन विपुलेनायतेन च
एकेनोरसि घोरेण नयनेनाशुदर्शिना
महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम्
भक्षयन्तं महाघोरान् ऋक्षसिंहमृगद्विपान्
घोरौ भुजौ विकुर्वाणम् उभौ योजनम् आयतौ
कराभ्यां विविधान् गृह्य ऋष्कान् पक्षिगणान् मृगान्
आकर्षन्तं विकर्षन्तम् अनेकान् मृगयूथपान्
स्थितम् आवृत्य पन्थानं तयोर् भ्रात्रोः प्रपन्नयोः
अथ तौ समतिक्रम्य क्रोशमात्रे ददर्शतुः
महान्तं दारुणं भीमं कबन्धं भुजसंवृतम्
स महाबाहुर् अत्यर्थं प्रसार्य विपुलौ भुजौ
जग्राह सहिताव् एव राघवौ पीडयन् बलात्
खड्गिनौ दृढधन्वानौ तिग्मतेजौ महाभुजौ
भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ
ताव् उवाच महाबाहुः कबन्धो दानवोत्तमः
कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ
घोरं देशम् इमं प्राप्तौ मम भक्षाव् उपस्थितौ
वदतं कार्यम् इह वां किमर्थं चागतौ युवाम्
इमं देशम् अनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः
सबाणचापखड्गौ च तीक्ष्णशृङ्गाव् इवर्षभौ
ममास्यम् अनुसंप्राप्तौ दुर्लभं जीवितं पुनः
तस्य तद् वचनं श्रुत्वा कबन्धस्य दुरात्मनः
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता
कृच्छ्रात् कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम
व्यसनं जीवितान्ताय प्राप्तम् अप्राप्य तां प्रियाम्
कालस्य सुमहद् वीर्यं सर्वभूतेषु लक्ष्मण
त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ
नातिभारो ऽस्ति दैवस्य सर्वभुतेषु लक्ष्मण
शूराश् च बलवन्तश् च कृतास्त्राश् च रणाजिरे
कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः
इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान्
अवेक्ष्य सौमित्रिम् उदग्रविक्रमं स्थिरां तदा स्वां मतिम् आत्मनाकरोत्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0