रामायण · अध्याय 3.064
रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम्
सौमित्रिं मित्रसंपन्नम् इदं वचनम् अब्रवीत्
ममायं नूनम् अर्थेषु यतमानो विहंगमः
राक्षसेन हतः संख्ये प्राणांस् त्यजति दुस्त्यजान्
अयम् अस्य शरीरे ऽस्मिन् प्राणो लक्ष्मण विद्यते
तथा स्वरविहीनो ऽयं विक्लवं समुदीक्षते
जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः
सीताम् आख्याहि भद्रं ते वधम् आख्याहि चात्मनः
किंनिमित्तो ऽहरत् सीतां रावणस् तस्य किं मया
अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया
कथं तच् चन्द्रसंकाशं मुखम् आसीन् मनोहरम्
सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम
कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः
क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः
तम् उद्वीक्ष्याथ दीनात्मा विलपन्तम् अनन्तरम्
वाचातिसन्नया रामं जटायुर् इदम् अब्रवीत्
सा हृता राक्षसेन्द्रेण रावणेन विहायसा
मायाम् आस्थाय विपुलां वातदुर्दिनसंकुलाम्
परिश्रान्तस्य मे तात पक्षौ छित्त्वा निशाचरः
सीताम् आदाय वैदेहीं प्रयातो दक्षिणा मुखः
उपरुध्यन्ति मे प्राणा दृष्टिर् भ्रमति राघव
पश्यामि वृक्षान् सौवर्णान् उशीरकृतमूर्धजान्
येन याति मुहूर्तेन सीताम् आदाय रावणः
विप्रनष्टं धनं क्षिप्रं तत् स्वामिप्रतिपद्यते
विन्दो नाम मुहूर्तो ऽसौ स च काकुत्स्थ नाबुधत्
झषवद् बडिशं गृह्य क्षिप्रम् एव विनश्यति
न च त्वया व्यथा कार्या जनकस्य सुतां प्रति
वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे
असंमूढस्य गृध्रस्य रामं प्रत्यनुभाषतः
आस्यात् सुस्राव रुधिरं म्रियमाणस्य सामिषम्
पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च
इत्य् उक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः
ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः
त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसं
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा
विक्षिप्य च शरीरं स्वं पपात धरणीतले
तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुम् अचलोपमम्
रामः सुबहुभिर् दुःखैर् दीनः सौमित्रिम् अब्रवीत्
बहूनि रक्षसां वासे वर्षाणि वसता सुखम्
अनेन दण्डकारण्ये विचीर्णम् इह पक्षिणा
अनेकवार्षिको यस् तु चिरकालं समुत्थितः
सो ऽयम् अद्य हतः शेते कालो हि दुरतिक्रमः
पश्य लक्ष्मण गृध्रो ऽयम् उपकारी हतश् च मे
सीताम् अभ्यवपन् नो वै रावणेन बलीयसा
गृध्रराज्यं परित्यज्य पितृपैतामहं महत्
मम हेतोर् अयं प्राणान् मुमोच पतगेश्वरः
सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः
शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्व् अपि
सीताहरणजं दुःखं न मे सौम्य तथागतम्
यथा विनाशो गृध्रस्य मत्कृते च परंतप
राजा दशरथः श्रीमान् यथा मम मया यशाः
पूजनीयश् च मान्यश् च तथायं पतगेश्वरः
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम्
गृध्रराजं दिधक्षामि मत्कृते निधनं गतम्
नाथं पतगलोकस्य चिताम् आरोपयाम्य् अहम्
इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा
या गतिर् यज्ञशीलानाम् आहिताग्नेश् च या गतिः
अपरावर्तिनां या च या च भूमिप्रदायिनाम्
मया त्वं समनुज्ञातो गच्छ लोकान् अनुत्तमान्
गृध्रराज महासत्त्व संस्कृतश् च मया व्रज
एवम् उक्त्वा चितां दीप्ताम् आरोप्य पतगेश्वरम्
ददाह रामो धर्मात्मा स्वबन्धुम् इव दुःखितः
रामो ऽथ सहसौमित्रिर् वनं यात्वा स वीर्यवान्
स्थूलान् हत्वा महारोहीन् अनु तस्तार तं द्विजम्
रोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाः
शकुनाय ददौ रामो रम्ये हरितशाद्वले
यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः
तत् स्वर्गगमनं तस्य क्षिप्रं रामो जजाप ह
ततो गोदावरीं गत्वा नदीं नरवरात्मजौ
उदकं चक्रतुस् तस्मै गृध्रराजाय ताव् उभौ
स गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः
महर्षिकल्पेन च संस्कृतस् तदा जगाम पुण्यां गतिम् आत्मनः शुभाम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0