भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.063

3.063.001

पूर्वजो ऽप्य् उक्तमात्रस् तु लक्ष्मणेन सुभाषितम्
सारग्राही महासारं प्रतिजग्राह राघवः

3.063.002

संनिगृह्य महाबाहुः प्रवृद्धं कोपम् आत्मनः
अवष्टभ्य धनुश् चित्रं रामो लक्ष्मणम् अब्रवीत्

3.063.003

किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण
केनोपायेन पश्येयं सीताम् इति विचिन्तय

3.063.004

तं तथा परितापार्तं लक्ष्मणो रामम् अब्रवीत्
इदम् एव जनस्थानं त्वम् अन्वेषितुम् अर्हसि

3.063.005

राक्षसैर् बहुभिः कीर्णं नानाद्रुमलतायुतम्
सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च

3.063.006

गुहाश् च विविधा घोरा नानामृगगणाकुलाः
आवासाः किंनराणां च गन्धर्वभवनानि च

3.063.007

तानि युक्तो मया सार्धं त्वम् अन्वेषितुम् अर्हसि
त्वद्विधो बुद्धिसंपन्ना माहात्मानो नरर्षभ

3.063.008

आपत्सु न प्रकम्पन्ते वायुवेगैर् इवाचलाः
इत्य् उक्तस् तद् वनं सर्वं विचचार सलक्ष्मणः

3.063.009

क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम्
ततः पर्वतकूटाभं महाभागं द्विजोत्तमम्

3.063.010

ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम्
तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणम् अब्रवीत्
अनेन सीता वैदेही भक्षिता नात्र संशयः

3.063.011

गृध्ररूपम् इदं व्यक्तं रक्षो भ्रमति काननम्
भक्षयित्वा विशालाक्षीम् आस्ते सीतां यथासुखम्
एनं वधिष्ये दीप्ताग्रैर् घोरैर् बाणैर् अजिह्मगैः

3.063.012

इत्य् उक्त्वाभ्यपतद् गृध्रं संधाय धनुषि क्षुरम्
क्रुद्धो रामः समुद्रान्तां चालयन्न् इव मेदिनीम्

3.063.013

तं दीनदीनया वाचा सफेनं रुधिरं वमन्
अभ्यभाषत पक्षी तु रामं दशरथात्मजम्

3.063.014

याम् ओषधिम् इवायुष्मन्न् अन्वेषसि महावने
सा देवी मम च प्राणा रावणेनोभयं हृतम्

3.063.015

त्वया विरहिता देवी लक्ष्मणेन च राघव
ह्रियमाणा मया दृष्टा रावणेन बलीयसा

3.063.016

सीताम् अभ्यवपन् नो ऽहं रावणश् च रणे मया
विध्वंसितरथच्छत्रः पातितो धरणीतले

3.063.017

एतद् अस्य धनुर् भग्नम् एतद् अस्य शरावरम्
अयम् अस्य रणे राम भग्नः सांग्रामिको रथः

3.063.018

परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः
सीताम् आदाय वैदेहीम् उत्पपात विहायसं
रक्षसा निहतं पूर्व्म न मां हन्तुं त्वम् अर्हसि

3.063.019

रामस् तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम्
गृध्रराजं परिष्वज्य रुरोद सहलक्ष्मणः

3.063.020

एकम् एकायने दुर्गे निःश्वसन्तं कथं चन
समीक्ष्य दुःखितो रामः सौमित्रिम् इदम् अब्रवीत्

3.063.021

राज्याद् भ्रंशो वने वासः सीता नष्टा हतो द्विजः
ईदृशीयं ममालक्ष्मीर् निर्दहेद् अपि पावकम्

3.063.022

संपूर्णम् अपि चेद् अद्य प्रतरेयं महोदधिम्
सो ऽपि नूनं ममालक्ष्म्या विशुष्येत् सरितां पतिः

3.063.023

नास्त्य् अभाग्यतरो लोके मत्तो ऽस्मिन् सचराचरे
येनेयं महती प्राप्ता मया व्यसनवागुरा

3.063.024

अयं पितृवयस्यो मे गृध्रराजो जरान्वितः
शेते विनिहतो भूमौ मम भाग्यविपर्ययात्

3.063.025

इत्य् एवम् उक्त्वा बहुशो राघवः सहलक्ष्मणः
जटायुषं च पस्पर्श पितृस्नेहं निदर्शयन्

3.063.026

निकृत्तपक्षं रुधिरावसिक्तं तं गृध्रराजं परिरभ्य रामः
क्व मैथिलि प्राणसमा ममेति विमुच्य वाचं निपपात भूमौ

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc