भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.062

3.062.001

तं तथा शोकसंतप्तं विलपन्तम् अनाथवत्
मोहेन महताविष्टं परिद्यूनम् अचेतनम्

3.062.002

ततः सौमित्रिर् आश्वास्य मुहूर्ताद् इव लक्ष्मणः
रामं संबोधयाम् आस चरणौ चाभिपीडयन्

3.062.003

महता तपसा राम महता चापि कर्मणा
राज्ञा दशरथेनासील् लब्धो ऽमृतम् इवामरैः

3.062.004

तव चैव गुणैर् बद्धस् त्वद्वियोगान् महीपतिः
राजा देवत्वम् आपन्नो भरतस्य यथा श्रुतम्

3.062.005

यदि दुःखम् इदं प्राप्तं काकुत्स्थ न सहिष्यसे
प्राकृतश् चाल्पसत्त्वश् च इतरः कः सहिष्यति

3.062.006

दुःखितो हि भवांल् लोकांस् तेजसा यदि धक्ष्यते
आर्ताः प्रजा नरव्याघ्र क्व नु यास्यन्ति निर्वृतिम्

3.062.007

लोकस्वभाव एवैष ययातिर् नहुषात्मजः
गतः शक्रेण सालोक्यम् अनयस् तं समस्पृशत्

3.062.008

महर्षयो वसिष्ठस् तु यः पितुर् नः पुरोहितः
अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर् हतम्

3.062.009

या चेयं जगतो माता देवी लोकनमस्कृता
अस्याश् च चलनं भूमेर् दृश्यते सत्यसंश्रव

3.062.010

यौ चेमौ जगतां नेत्रे यत्र सर्वं प्रतिष्ठितम्
आदित्यचन्द्रौ ग्रहणम् अभ्युपेतौ महाबलौ

3.062.011

सुमहान्त्य् अपि भूतानि देवाश् च पुरुषर्षभ
न दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः

3.062.012

शक्रादिष्व् अपि देवेषु वर्तमानौ नयानयौ
श्रूयेते नरशार्दूल न त्वं व्यथितुम् अर्हसि

3.062.013

नष्टायाम् अपि वैदेह्यां हृतायाम् अपि चानघ
शोचितुं नार्हसे वीर यथान्यः प्राकृतस् तथा

3.062.014

त्वद्विधा हि न शोचन्ति सततं सत्यदर्शिनः
सुमहत्स्व् अपि कृच्छ्रेषु रामानिर्विण्णदर्शणाः

3.062.015

तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय
बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे

3.062.016

अदृष्टगुणदोषाणाम् अधृतानां च कर्मणाम्
नान्तरेण क्रियां तेषां फलम् इष्टं प्रवर्तते

3.062.017

माम् एव हि पुरा वीर त्वम् एव बहुषो ऽन्वशाः
अनुशिष्याद् धि को नु त्वाम् अपि साक्षाद् बृहस्पतिः

3.062.018

बुद्धिश् च ते महाप्राज्ञ देवैर् अपि दुरन्वया
शोकेनाभिप्रसुप्तं ते ज्ञानं संबोधयाम्य् अहम्

3.062.019

दिव्यं च मानुषं चैवम् आत्मनश् च पराक्रमम्
इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां बधे

3.062.020

किं ते सर्वविनाशेन कृतेन पुरुषर्षभ
तम् एव तु रिपुं पापं विज्ञायोद्धर्तुम् अर्हसि

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc