रामायण · अध्याय 3.061
तप्यमानं तथा रामं सीताहरणकर्शितम्
लोकानाम् अभवे युक्तं साम्वर्तकम् इवानलम्
वीक्षमाणं धनुः सज्यं निःश्वसन्तं मुहुर् मुहुः
हन्तुकामं पशुं रुद्रं क्रुद्धं दक्षक्रतौ यथा
अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं स लक्ष्मणः
अब्रवीत् प्राञ्जलिर् वाक्यं मुखेन परिशुष्यता
पुरा भूत्वा मृदुर् दान्तः सर्वभूतहिते रतः
न क्रोधवशम् आपन्नः प्रकृतिं हातुम् अर्हसि
चन्द्रे लक्ष्णीः प्रभा सूर्ये गतिर् वायौ भुवि क्षमा
एतच् च नियतं सर्वं त्वयि चानुत्तमं यशः
न तु जानामि कस्यायं भग्नः सांग्रामिको रथः
केन वा कस्य वा हेतोः सायुधः सपरिच्छदः
खुरनेमिक्षतश् चायं सिक्तो रुधिरबिन्दुभिः
देशो निवृत्तसंग्रामः सुघोरः पार्थिवात्मज
एकस्य तु विमर्दो ऽयं न द्वयोर् वदतां वर
न हि वृत्तं हि पश्यामि बलस्य महतः पदम्
नैकस्य तु कृते लोकान् विनाशयितुम् अर्हसि
युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः
सदा त्वं सर्वभूतानां शरण्यः परमा गतिः
को नु दारप्रणाशं ते साधु मन्येत राघव
सरितः सागराः शैला देवगन्धर्वदानवाः
नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः
येन राजन् हृता सीता तम् अन्वेषितुम् अर्हसि
मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः
समुद्रं च विचेष्यामः पर्वतांश् च वनानि च
गुहाश् च विविधा घोरा नलिनीः पार्वतीश् च ह
देवगन्धर्वलोकांश् च विचेष्यामः समाहिताः
यावन् नाधिगमिष्यामस् तव भार्यापहारिणम्
न चेत् साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः
कोसलेन्द्र ततः पश्चात् प्राप्तकालं करिष्यसि
शीलेन साम्ना विनयेन सीतां नयेन न प्राप्स्यसि चेन् नरेन्द्र
ततः समुत्सादय हेमपुङ्खैर् महेन्द्रवज्रप्रतिमैः शरौघैः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0