भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.060

3.060.001

स दीनो दीनया वाचा लक्ष्मणं वाक्यम् अब्रवीत्
शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम्
अपि गोदावरीं सीता पद्मान्य् आनयितुं गता

3.060.002

एवम् उक्तस् तु रामेण लक्ष्मणः पुनर् एव हि
नदीं गोदावरीं रम्यां जगाम लघुविक्रमः

3.060.003

तां लक्ष्मणस् तीर्थवतीं विचित्वा रामम् अब्रवीत्
नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे

3.060.004

कं नु सा देशम् आपन्ना वैदेही क्लेशनाशिनी
न हि तं वेद्मि वै राम यत्र सा तनुमध्यमा

3.060.005

लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः
रामः समभिचक्राम स्वयं गोदावरीं नदीम्

3.060.006

स ताम् उपस्थितो रामः क्व सीतेत्य् एवम् अब्रवीत्

3.060.007

भूतानि राक्षसेन्द्रेण वधार्हेण हृताम् अपि
न तां शशंसू रामाय तथा गोदावरी नदी

3.060.008

ततः प्रचोदिता भूतैः शंसास्मै तां प्रियाम् इति
न च साभ्यवदत् सीतां पृष्टा रामेण शोचिता

3.060.009

रावणस्य च तद् रूपं कर्माणि च दुरात्मनः
ध्यात्वा भयात् तु वैदेहीं सा नदी न शशंस ताम्

3.060.010

निराशस् तु तया नद्या सीताया दर्शने कृतः
उवाच रामः सौमित्रिं सीतादर्शनकर्शितः

3.060.011

किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः
मातरं चैव वैदेह्या विना ताम् अहम् अप्रियम्

3.060.012

या मे राज्यविहीनस्य वने वन्येन जीवतः
सर्वं व्यपनयच् छोकं वैदेही क्व नु सा गता

3.060.013

ज्ञातिपक्षविहीनस्य राजपुत्रीम् अपश्यतः
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः

3.060.014

गोदावरीं जनस्थानम् इमं प्रस्रवणं गिरिम्
सर्वाण्य् अनुचरिष्यामि यदि सीता हि दृश्यते

3.060.015

एवं संभाषमाणौ ताव् अन्योन्यं भ्रातराव् उभौ
वसुंधरायां पतितं पुष्पमार्गम् अपश्यताम्

3.060.016

तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले
उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः

3.060.017

अभिजानामि पुष्पाणि तानीमामीह लक्ष्मण
अपिनद्धानि वैदेह्या मया दत्तानि कानने

3.060.018

एवम् उक्त्वा महाबाहुर् लक्ष्मणं पुरुषर्षभम्
क्रुद्धो ऽब्रवीद् गिरिं तत्र सिंहः क्षुद्रमृगं यथा

3.060.019

तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत
यावत् सानूनि सर्वाणि न ते विध्वंसयाम्य् अहम्

3.060.020

मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि
असेव्यः सततं चैव निस्तृणद्रुमपल्लवः

3.060.021

इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण
यदि नाख्याति मे सीताम् अद्य चन्द्रनिभाननाम्

3.060.022

एवं स रुषितो रामो दिधक्षन्न् इव चक्षुषा
ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत्

3.060.023

स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च
संभ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम्

3.060.024

पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः
भूषणानां हि सौमित्रे माल्यानि विविधानि च

3.060.025

तप्तबिन्दुनिकाशैश् च चित्रैः क्षतजबिन्दुभिः
आवृतं पश्य सौमित्रे सर्वतो धरणीतलम्

3.060.026

मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः
भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति

3.060.027

तस्य निमित्तं वैदेह्या द्वयोर् विवदमानयोः
बभूव युद्धं सौमित्रे घोरं राक्षसयोर् इह

3.060.028

मुक्तामणिचितं चेदं तपनीयविभूषितम्
धरण्यां पतितं सौम्य कस्य भग्नं महद् धनुः

3.060.029

तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम्
विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम्

3.060.030

छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्
भग्नदण्डम् इदं कस्य भूमौ सौम्य निपातितम्

3.060.031

काञ्चनोरश्छदाश् चेमे पिशाचवदनाः खराः
भीमरूपा महाकायाः कस्य वा निहता रणे

3.060.032

दीप्तपावकसंकाशो द्युतिमान् समरध्वजः
अपविद्धश् च भग्नश् च कस्य सांग्रामिको रथः

3.060.033

रथाक्षमात्रा विशिखास् तपनीयविभूषणाः
कस्येमे ऽभिहता बाणाः प्रकीर्णा घोरकर्मणः

3.060.034

वैरं शतगुणं पश्य ममेदं जीवितान्तकम्
सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः

3.060.035

हृता मृता वा सीता हि भक्षिता वा तपस्विनी
न धर्मस् त्रायते सीतां ह्रियमाणां महावने

3.060.036

भक्षितायां हि वैदेह्यां हृतायाम् अपि लक्ष्मण
के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः

3.060.037

कर्तारम् अपि लोकानां शूरं करुणवेदिनम्
अज्ञानाद् अवमन्येरन् सर्वभूतानि लक्ष्मण

3.060.038

मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम्
निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः

3.060.039

मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण
अद्यैव सर्वभूतानां रक्षसाम् अभवाय च
संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः

3.060.040

नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः
किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण

3.060.041

ममास्त्रबाणसंपूर्णम् आकाशं पश्य लक्ष्मण
निःसंपातं करिष्यामि ह्य् अद्य त्रैलोक्यचारिणाम्

3.060.042

संनिरुद्धग्रहगणम् आवारितनिशाकरम्
विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम्

3.060.043

विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम्
ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम्

3.060.044

न तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः
अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम्

3.060.045

नाकाशम् उत्पतिष्यन्ति सर्वभूतानि लक्ष्मण
मम चापगुणान् मुक्तैर् बाणजालैर् निरन्तरम्

3.060.046

अर्दितं मम नाराचैर् ध्वस्तभ्रान्तमृगद्विजम्
समाकुलम् अमर्यादं जगत् पश्याद्य लक्ष्मण

3.060.047

आकर्णपूर्णैर् इषुभिर् जीवलोकं दुरावरैः
करिष्ये मैथिलीहेतोर् अपिशाचम् अराक्षसं

3.060.048

मम रोषप्रयुक्तानां सायकानां बलं सुराः
द्रक्ष्यन्त्य् अद्य विमुक्तानाम् अमर्षाद् दूरगामिनाम्

3.060.049

नैव देवा न दैतेया न पिशाचा न राक्षसाः
भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते

3.060.050

देवदानवयक्षाणां लोका ये रक्षसाम् अपि
बहुधा निपतिष्यन्ति बाणौघैः शकुलीकृताः
निर्मर्यादान् इमांल् लोकान् करिष्याम्य् अद्य सायकैः

3.060.051

यथा जरा यथा मृत्युर् यथाकालो यथाविधिः
नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण
तथाहं क्रोधसंयुक्तो न निवार्यो ऽस्म्य् असंशयम्

3.060.052

पुरेव मे चारुदतीम् अनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम्
सदेवगन्धर्वमनुष्य पन्नगं जगत् सशैलं परिवर्तयाम्य् अहम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc