भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.059

3.059.001

दृष्टाश्रमपदं शून्यं रामो दशरथात्मजः
रहितां पर्णशालां च विध्वस्तान्य् आसनानि च

3.059.002

अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः
उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ

3.059.003

क्व नु लक्ष्मण वैदेही कं वा देशम् इतो गता
केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया

3.059.004

वृष्केणावार्य यदि मां सीते हसितुम् इच्छसि
अलं ते हसितेनाद्य मां भजस्व सुदुःखितम्

3.059.005

यैः सह क्रीडसे सीते विश्वस्तैर् मृगपोतकैः
एते हीनास् त्वया सौम्ये ध्यायन्त्य् अस्राविलेक्षणाः

3.059.006

मृतं शोकेन महता सीताहरणजेन माम्
परलोके महाराजो नूनं द्रक्ष्यति मे पिता

3.059.007

कथं प्रतिज्ञां संश्रुत्य मया त्वम् अभियोजितः
अपूरयित्वा तं कालं मत्सकाशम् इहागतः

3.059.008

कामवृत्तम् अनार्यं मां मृषावादिनम् एव च
धिक् त्वाम् इति परे लोके व्यक्तं वक्ष्यति मे पिता

3.059.009

विवशं शोकसंतप्तं दीनं भग्नमनोरथम्
माम् इहोत्सृज्य करुणं कीर्तिर् नरम् इवानृजुम्

3.059.010

क्व गच्छसि वरारोहे माम् उत्सृज्य सुमध्यमे
त्वया विरहितश् चाहं मोक्ष्ये जीवितम् आत्मनः

3.059.011

इतीव विलपन् रामः सीतादर्शनलालसः
न ददर्श सुदुःखार्तो राघवो जनकात्मजाम्

3.059.012

अनासादयमानं तं सीतां दशरथात्मजम्
पङ्कम् आसाद्य विपुलं सीदन्तम् इव कुञ्जरम्
लक्ष्मणो रामम् अत्यर्थम् उवाच हितकाम्यया

3.059.013

मा विषादं महाबाहो कुरु यत्नं मया सह
इदं च हि वनं शूर बहुकन्दरशोभितम्

3.059.014

प्रियकाननसंचारा वनोन्मत्ता च मैथिली
सा वनं वा प्रविष्टा स्यान् नलिनीं वा सुपुष्पिताम्

3.059.015

सरितं वापि संप्राप्ता मीनवञ्जुरसेविताम्
वित्रासयितुकामा वा लीना स्यात् कानने क्व चित्
जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ

3.059.016

तस्या ह्य् अन्वेषणे श्रीमन् क्षिप्रम् एव यतावहे
वनं सर्वं विचिनुवो यत्र सा जनकात्मजा
मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः

3.059.017

एवम् उक्तस् तु सौहार्दाल् लक्ष्मणेन समाहितः
सह सौमित्रिणा रामो विचेतुम् उपचक्रमे
तौ वनानि गिरींश् चैव सरितश् च सरांसि च

3.059.018

निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ
तस्य शैलस्य सानूनि गुहाश् च शिखराणि च

3.059.019

निखिलेन विचिन्वन्तौ नैव ताम् अभिजग्मतुः
विचित्य सर्वतः शैलं रामो लक्ष्मणम् अब्रवीत्

3.059.020

नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभे
ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यम् अब्रवीत्

3.059.021

विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसं
प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम्

3.059.022

यथा विष्णुर् महाबाहुर् बलिं बद्ध्वा महीम् इमाम्
एवम् उक्तस् तु वीरेण लक्ष्मणेन स राघवः

3.059.023

उवाच दीनया वाचा दुःखाभिहतचेतनः
वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः

3.059.024

गिरिश् चायं महाप्राज्ञ बहुकन्दरनिर्झरः
न हि पश्यामि वैदेहीं प्राणेभ्यो ऽपि गरीयसीम्

3.059.025

एवं स विलपन् रामः सीताहरणकर्शितः
दीनः शोकसमाविष्टो मुहूर्तं विह्वलो ऽभवत्

3.059.026

स विह्वलितसर्वाङ्गो गतबुद्धिर् विचेतनः
विषसादातुरो दीनो निःश्वस्याशीतम् आयतम्

3.059.027

बहुशः स तु निःश्वस्य रामो राजीवलोचनः
हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः

3.059.028

तं सान्त्वयाम् आस ततो लक्ष्मणः प्रियबान्धवः
बहुप्रकारं धर्मज्ञः प्रश्रितः प्रश्रिताञ्जलिः

3.059.029

अनादृत्य तु तद् वाक्यं लक्ष्मणौष्ठपुटच्युतम्
अपश्यंस् तां प्रियां सीतां प्राक्रोशत् स पुनः पुनः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc