भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.058

3.058.001

भृशम् आव्रजमानस्य तस्याधोवामलोचनम्
प्रास्फुरच् चास्खलद् रामो वेपथुश् चास्य जायते

3.058.002

उपालक्ष्य निमित्तानि सो ऽशुभानि मुहुर् मुहुः
अपि क्षेमं तु सीताया इति वै व्याजहार ह

3.058.003

त्वरमाणो जगामाथ सीतादर्शनलालसः
शून्यम् आवसथं दृष्ट्वा बभूवोद्विग्नमानसः

3.058.004

उद्भ्रमन्न् इव वेगेन विक्षिपन् रघुनन्दनः
तत्र तत्रोटजस्थानम् अभिवीक्ष्य समन्ततः

3.058.005

ददर्श पर्णशालां च रहितां सीतया तदा
श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीम् इव

3.058.006

रुदन्तम् इव वृक्षैश् च म्लानपुष्पमृगद्विजम्
श्रिया विहीनं विध्वस्तं संत्यक्तवनदैवतम्

3.058.007

विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम्
दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः

3.058.008

हृता मृता वा नष्टा वा भक्षिता वा भविष्यति
निलीनाप्य् अथ वा भीरुर् अथ वा वनम् आश्रिता

3.058.009

गता विचेतुं पुष्पाणि फलान्य् अपि च वा पुनः
अथ वा पद्मिनीं याता जलार्थं वा नदीं गता

3.058.010

यत्नान् मृगयमाणस् तु नाससाद वने प्रियाम्
शोकरक्तेक्षणः शोकाद् उन्मत्त इव लक्ष्यते

3.058.011

वृक्षाद् वृक्षं प्रधावन् स गिरींश् चापि नदीन् नदीम्
बभूव विलपन् रामः शोकपङ्कार्णवप्लुतः

3.058.012

अस्ति कच्चित् त्वया दृष्टा सा कदम्बप्रिया प्रिया
कदम्ब यदि जानीषे शंस सीतां शुभाननाम्

3.058.013

स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम्
शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी

3.058.014

अथ वार्जुन शंस त्वं प्रियां ताम् अर्जुनप्रियाम्
जनकस्य सुता भीरुर् यदि जीवति वा न वा

3.058.015

ककुभः ककुभोरुं तां व्यक्तं जानाति मैथिलीम्
लतापल्लवपुष्पाढ्यो भाति ह्य् एष वनस्पतिः

3.058.016

भ्रमरैर् उपगीतश् च यथा द्रुमवरो ह्य् अयम्
एष व्यक्तं विजानाति तिलकस् तिलकप्रियाम्

3.058.017

अशोकशोकापनुद शोकोपहतचेतसं
त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम्

3.058.018

यदि ताल त्वया दृष्टा पक्वतालफलस्तनी
कथयस्व वरारोहां कारुष्यं यदि ते मयि

3.058.019

यदि दृष्टा त्वया सीता जम्बुजाम्बूनदप्रभा
प्रियां यदि विजानीषे निःशङ्कं कथयस्व मे

3.058.020

अथ वा मृगशावाक्षीं मृग जानासि मैथिलीम्
मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत्

3.058.021

गज सा गजनासोरुर् यदि दृष्टा त्वया भवेत्
तां मन्ये विदितां तुभ्यम् आख्याहि वरवारण

3.058.022

शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना
मैथिली मम विस्रब्धः कथयस्व न ते भयम्

3.058.023

किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे
वृक्षेणाच्छाद्य चात्मानं किं मां न प्रतिभाषसे

3.058.024

तिष्ठ तिष्ठ वरारोहे न ते ऽस्ति करुणा मयि
नात्यर्थं हास्यशीलासि किमर्थं माम् उपेक्षसे

3.058.025

पीतकौशेयकेनासि सूचिता वरवर्णिनि
धावन्त्य् अपि मया दृष्टा तिष्ठ यद्य् अस्ति सौहृदम्

3.058.026

नैव सा नूनम् अथ वा हिंसिता चारुहासिनी
कृच्छ्रं प्राप्तं हि मां नूनं यथोपेक्षितुम् अर्हति

3.058.027

व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः
विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया

3.058.028

नूनं तच् छुभदन्तौष्ठं मुखं निष्प्रभतां गतम्
सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेय शोभिता

3.058.029

कोमला विलपन्त्यास् तु कान्ताया भक्षिता शुभा
नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ

3.058.030

भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ
मया विरहिता बाला रक्षसां भक्षणाय वै

3.058.031

सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा
हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्व चित्

3.058.032

हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः
इत्य् एवं विलपन् रामः परिधावन् वनाद् वनम्

3.058.033

क्व चिद् उद्भ्रमते वेगात् क्व चिद् विभ्रमते बलात्
क्व चिन् मत्त इवाभाति कान्तान् वेषणतत्परः

3.058.034

स वनानि नदीः शैलान् गिरिप्रस्रवणानि च
काननानि च वेगेन भ्रमत्य् अपरिसंस्थितः

3.058.035

तथा स गत्वा विपुलं महद् वनं परीत्य सर्वं त्व् अथ मैथिलीं प्रति
अनिष्ठिताशः स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc