भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.057

3.057.001

अथाश्रमाद् उपावृत्तम् अन्तरा रघुनन्दनः
परिपप्रच्छ सौमित्रिं रामो दुःखार्दितः पुनः

3.057.002

तम् उवाच किमर्थं त्वम् आगतो ऽपास्य मैथिलीम्
यदा सा तव विश्वासाद् वने विहरिता मया

3.057.003

दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण
शङ्कमानं महत् पापं यत् सत्यं व्यथितं मनः

3.057.004

स्फुरते नयनं सव्यं बाहुश् च हृदयं च मे
दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि

3.057.005

एवम् उक्तस् तु सौमित्रिर् लक्ष्मणः शुभलक्षणः
भूयो दुःखसमाविष्टो दुःखितं रामम् अब्रवीत्

3.057.006

न स्वयं कामकारेण तां त्यक्त्वाहम् इहागतः
प्रचोदितस् तयैवोग्रैस् त्वत्सकाशम् इहागतः

3.057.007

आर्येणेव परिक्रुष्टं हा सीते लक्ष्मणेति च
परित्राहीति यद् वाक्यं मैथिल्यास् तच् छ्रुतिं गतम्

3.057.008

सा तम् आर्तस्वरं श्रुत्वा तव स्नेहेन मैथिली
गच्छ गच्छेति माम् आह रुदन्ती भयविह्वला

3.057.009

प्रचोद्यमानेन मया गच्छेति बहुशस् तया
प्रत्युक्ता मैथिली वाक्यम् इदं त्वत्प्रत्ययान्वितम्

3.057.010

न तत् पश्याम्य् अहं रक्षो यद् अस्य भयम् आवहेत्
निर्वृता भव नास्त्य् एतत् केनाप्य् एवम् उदाहृतम्

3.057.011

विगर्हितं च नीचं च कथम् आर्यो ऽभिधास्यति
त्राहीति वचनं सीते यस् त्रायेत् त्रिदशान् अपि

3.057.012

किंनिमित्तं तु केनापि भ्रातुर् आलम्ब्य मे स्वरम्
विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि माम् इति
न भवत्या व्यथा कार्या कुनारीजनसेविता

3.057.013

अलं वैक्लव्यम् आलम्ब्य स्वस्था भव निरुत्सुका
न चास्ति त्रिषु लोकेषु पुमान् यो राघवं रणे
जातो वा जायमानो वा संयुगे यः पराजयेत्

3.057.014

एवम् उक्ता तु वैदेही परिमोहितचेतना
उवाचाश्रूणि मुञ्चन्ती दारुणं माम् इदं वचः

3.057.015

भावो मयि तवात्यर्थं पाप एव निवेशितः
विनष्टे भ्रातरि प्राप्ते न च त्वं माम् अवाप्स्यसि

3.057.016

संकेताद् भरतेन त्वं रामं समनुगच्छसि
क्रोशन्तं हि यथात्यर्थं नैनम् अभ्यवपद्यसे

3.057.017

रिपुः प्रच्छन्नचारी त्वं मदर्थम् अनुगच्छसि
राघवस्यान्तरप्रेप्सुस् तथैनं नाभिपद्यसे

3.057.018

एवम् उक्तो हि वैदेह्या संरब्धो रक्तलोचनः
क्रोधात् प्रस्फुरमाणौष्ठ आश्रमाद् अभिनिर्गतः

3.057.019

एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितः
अब्रवीद् दुष्कृतं सौम्य तां विना यत् त्वम् आगतः

3.057.020

जानन्न् अपि समर्थं मां रक्षसां विनिवारणे
अनेन क्रोधवाक्येन मैथिल्या निःसृतो भवान्

3.057.021

न हि ते परितुष्यामि त्यक्त्वा यद् यासि मैथिलीम्
क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत् त्वम् इहागतः

3.057.022

सर्वथा त्व् अपनीतं ते सीतया यत् प्रचोदितः
क्रोधस्य वशम् आगम्य नाकरोः शासनं मम

3.057.023

असौ हि राक्षसः शेते शरेणाभिहतो मया
मृगरूपेण येनाहम् आश्रमाद् अपवादितः

3.057.024

विकृष्य चापं परिधाय सायकं सलील बाणेन च ताडितो मया
मार्गीं तनुं त्यज्य च विक्लवस्वरो बभूव केयूरधरः स राक्षसः

3.057.025

शराहतेनैव तदार्तया गिरा स्वरं ममालम्ब्य सुदूरसंश्रवम्
उदाहृतं तद् वचनं सुदारुणं त्वम् आगतो येन विहाय मैथिलीम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc