भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.054

3.054.001

सा तथोक्ता तु वैदेही निर्भया शोककर्षिता
तृणम् अन्तरतः कृत्वा रावणं प्रत्यभाषत

3.054.002

राजा दशरथो नाम धर्मसेतुर् इवाचलः
सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः

3.054.003

रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः
दीर्घबाहुर् विशालाक्षो दैवतं स पतिर् मम

3.054.004

इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः
लक्ष्मणेन सह भ्रात्रा यस् ते प्राणां हरिष्यति

3.054.005

प्रत्यक्षं यद्य् अहं तस्य त्वया स्यां धर्षिता बलात्
शयिता त्वं हतः संख्ये जनस्थाने यथा खरः

3.054.006

य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः
राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा

3.054.007

तस्य ज्याविप्रमुक्तास् ते शराः काञ्चनभूषणाः
शरीरं विधमिष्यन्ति गङ्गाकूलम् इवोर्मयः

3.054.008

असुरैर् वा सुरैर् वा त्वं यद्य् अवधो ऽसि रावण
उत्पाद्य सुमहद् वैरं जीवंस् तस्य न मोक्ष्यसे

3.054.009

स ते जीवितशेषस्य राघवो ऽन्तकरो बली
पशोर् यूपगतस्येव जीवितं तव दुर्लभम्

3.054.010

यदि पश्येत् स रामस् त्वां रोषदीप्तेन चक्षुषा
रक्षस् त्वम् अद्य निर्दग्धो गच्छेः सद्यः पराभवम्

3.054.011

यश् चन्द्रं नभसो भूमौ पातयेन् नाशयेत वा
सागरं शोषयेद् वापि स सीतां मोचयेद् इह

3.054.012

गतायुस् त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः
लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति

3.054.013

न ते पापम् इदं कर्म सुखोदर्कं भविष्यति
याहं नीता विना भावं पतिपार्श्वात् त्वया वनात्

3.054.014

स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः
निर्भयो वीर्यम् आश्रित्य शून्ये वसति दण्डके

3.054.015

स ते दर्पं बलं वीर्यम् उत्सेकं च तथाविधम्
अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे

3.054.016

यदा विनाशो भूतानां दृश्यते कालचोदितः
तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः

3.054.017

मां प्रधृष्य स ते कालः प्राप्तो ऽयं रक्षसाधम
आत्मनो राक्षसानां च वधायान्तःपुरस्य च

3.054.018

न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्ड मण्डिता
द्विजातिमन्त्रसंपूता चण्डालेनावमर्दितुम्

3.054.019

इदं शरीरं निःसंज्ञं बन्ध वा घातयस्व वा
नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस
न हि शक्ष्याम्य् उपक्रोशं पृथिव्यां दातुम् आत्मनः

3.054.020

एवम् उक्त्वा तु वैदेही क्रोद्धात् सुपरुषं वचः
रावणं मैथिली तत्र पुनर् नोवाच किं चन

3.054.021

सीताया वचनं श्रुत्वा परुषं रोमहर्षणम्
प्रत्युवाच ततः सीतां भयसंदर्शनं वचः

3.054.022

शृणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि
कालेनानेन नाभ्येषि यदि मां चारुहासिनि
ततस् त्वां प्रातराशार्थं सूदाश् छेत्स्यन्ति लेशशः

3.054.023

इत्य् उक्त्वा परुषं वाक्यं रावणः शत्रुरावणः
राक्षसीश् च ततः क्रुद्ध इदं वचनम् अब्रवीत्

3.054.024

शीघ्रम् एवं हि राक्षस्यो विकृता घोरदर्शनाः
दर्पम् अस्या विनेष्यन्तु मांसशोणितभोजनाः

3.054.025

वचनाद् एव तास् तस्य विकृता घोरदर्शनाः
कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन्

3.054.026

स ताः प्रोवाच राजा तु रावणो घोरदर्शनः
प्रचाल्य चरणोत्कर्षैर् दारयन्न् इव मेदिनीम्

3.054.027

अशोकवनिकामध्ये मैथिली नीयताम् इति
तत्रेयं रक्ष्यतां गूढम् उष्माभिः परिवारिता

3.054.028

तत्रैनां तर्जनैर् घोरैः पुनः सान्त्वैश् च मैथिलीम्
आनयध्वं वशं सर्वा वन्यां गजवधूम् इव

3.054.029

इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः
अशोकवनिकां जग्मुर् मैथिलीं परिगृह्य ताम्

3.054.030

सर्वकामफलैर् वृक्षैर् नानापुष्पफलैर् वृताम्
सर्वकालमदैश् चापि द्विजैः समुपसेविताम्

3.054.031

सा तु शोकपरीताङ्गी मैथिली जनकात्मजा
राक्षसी वशम् आपन्ना व्याघ्रीणां हरिणी यथा

3.054.032

न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिर् अतीव तर्जिता
पतिं स्मरन्ती दयितं च देवरं विचेतनाभूद् भयशोकपीडिता

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc