रामायण · अध्याय 3.055
राक्षसं मृगरूपेण चरन्तं कामरूपिणम्
निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत
तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम्
क्रूरस्वरो ऽथ गोमायुर् विननादास्य पृष्ठतः
स तस्य स्वरम् आज्ञाय दारुणं रोमहर्षणम्
चिन्तयाम् आस गोमायोः स्वरेण परिशङ्कितः
अशुभं बत मन्ये ऽहं गोमायुर् वाश्यते यथा
स्वस्ति स्याद् अपि वैदेह्या राक्षसैर् भक्षणं विना
मारीचेन तु विज्ञाय स्वरम् आलक्ष्य मामकम्
विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद् यदि
स सौमित्रिः स्वरं श्रुत्वा तां च हित्वाथ मैथिलीम्
तयैव प्रहितः क्षिप्रं मत्सकाशम् इहैष्यति
राक्षसैः सहितैर् नूनं सीताया ईप्सितो वधः
काञ्चनश् च मृगो भूत्वा व्यपनीयाश्रमात् तु माम्
दूरं नीत्वा तु मारीचो राक्षसो ऽभूच् छराहतः
हा लक्ष्मण हतो ऽस्मीति यद् वाक्यं व्यजहार ह
अपि स्वस्ति भवेद् द्वाभ्यां रहिताभ्यां मया वने
जनस्थाननिमित्तं हि कृतवैरो ऽस्मि राक्षसैः
निमित्तानि च घोराणि दृश्यन्ते ऽद्य बहूनि च
इत्य् एवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम्
आत्मनश् चापनयनं मृगरूपेण रक्षसा
आजगाम जनस्थानं राघवः परिशङ्कितः
तं दीनमानसं दीनम् आसेदुर् मृगपक्षिणः
सव्यं कृत्वा महात्मानं घोरांश् च ससृजुः स्वरान्
तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः
ततो लक्षणम् आयान्तं ददर्श विगतप्रभम्
ततो ऽविदूरे रामेण समीयाय स लक्ष्मणः
विषण्णः स विषण्णेन दुःखितो दुःखभागिना
संजगर्हे ऽथ तं भ्राता जेष्ठो लक्ष्मणम् आगतम्
विहाय सीतां विजने वने राक्षससेविते
गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः
उवाच मधुरोदर्कम् इदं परुषम् आर्तवत्
अहो लक्ष्मण गर्ह्यं ते कृतं यत् त्वं विहाय ताम्
सीताम् इहागतः सौम्य कच्चित् स्वस्ति भवेद् इति
न मे ऽस्ति संशयो वीर सर्वथा जनकात्मजा
विनष्टा भक्षिता वाप राक्षसैर् वनचारिभिः
अशुभान्य् एव भूयिष्ठं यथा प्रादुर्भवन्ति मे
अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयावहे
इदं हि रक्षोमृगसंनिकाशं प्रलोभ्य मां दूरम् अनुप्रयातम्
हतं कथं चिन् महता श्रमेण स राक्षसो ऽभून् म्रियमाण एव
मनश् च मे दीनम् इहाप्रहृष्टं चक्षुश् च सव्यं कुरुते विकारम्
असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पथि वर्तते वा
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0