भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.053

3.053.001

संदिश्य राक्षसान् घोरान् रावणो ऽष्टौ महाबलान्
आत्मानं बुद्धिवैक्लव्यात् कृतकृत्यम् अमन्यत

3.053.002

स चिन्तयानो वैदेहीं कामबाणसमर्पितः
प्रविवेश गृहं रम्यं सीतां द्रष्टुम् अभित्वरन्

3.053.003

स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः
अपश्यद् राक्षसीमध्ये सीतां शोकपरायणम्

3.053.004

अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम्
वायुवेगैर् इवाक्रान्तां मज्जन्तीं नावम् अर्णवे

3.053.005

मृगयूथपरिभ्रष्टां मृगीं श्वभिर् इवावृताम्
अधोमुखमुखीं दीनाम् अभ्येत्य च निशाचरः

3.053.006

तां तु शोकवशां दीनाम् अवशां राक्षसाधिपः
स बलाद् दर्शयाम् आस गृहं देवगृहोपमम्

3.053.007

हर्म्यप्रासादसंबधं स्त्रीसहस्रनिषेवितम्
नानापक्षिगणैर् जुष्टं नानारत्नसमन्वितम्

3.053.008

काञ्चनैस् तापनीयैश् च स्फाटिकै राजतैस् तथा
वज्रवैदूर्यचित्रैश् च स्तम्भैर् दृष्टिमनोहरैः

3.053.009

दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम्
सोपानं काञ्चनं चित्रम् आरुरोह तया सह

3.053.010

दान्तका राजताश् चैव गवाक्षाः प्रियदर्शनाः
हेमजालावृताश् चासंस् तत्र प्रासादपङ्क्तयः

3.053.011

सुधामणिविचित्राणि भूमिभागानि सर्वशः
दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम्

3.053.012

दीर्घिकाः पुष्करिण्यश् च नानापुष्पसमावृताः
रावणो दर्शयाम् आस सीतां शोकपरायणाम्

3.053.013

दर्शयित्वा तु वैदेहीं कृत्स्नं तद् भवनोत्तमम्
उवाच वाक्यं पापात्मा रावणो जनकात्मजाम्

3.053.014

दशराक्षसकोट्यश् च द्वाविंशतिर् अथापराः
वर्जयित्वा जरा वृद्धान् बालांश् च रजनीचरान्

3.053.015

तेषां प्रभुर् अहं सीते सर्वेषां भीमकर्मणाम्
सहस्रम् एकम् एकस्य मम कार्यपुरःसरम्

3.053.016

यद् इदं राज्यतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम्
जीवितं च विशालाक्षि त्वं मे प्राणैर् गरीयसी

3.053.017

बहूनां स्त्रीसहस्राणां मम यो ऽसौ परिग्रहः
तासां त्वम् ईश्वरी सीते मम भार्या भव प्रिये

3.053.018

साधु किं ते ऽन्यया बुद्ध्या रोचयस्व वचो मम
भजस्व माभितप्तस्य प्रसादं कर्तुम् अर्हसि

3.053.019

परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना
नेयं धर्षयितुं शक्या सेन्द्रैर् अपि सुरासुरैः

3.053.020

न देवेषु न यक्षेषु न गन्धर्वेषु नर्षिषु
अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत्

3.053.021

राज्यभ्रष्टेन दीनेन तापसेन गतायुषा
किं करिष्यसि रामेण मानुषेणाल्पतेजसा

3.053.022

भजस्व सीते माम् एव भर्ताहं सदृशस् तव
यौवनं ह्य् अध्रुवं भीरु रमस्वेह मया सह

3.053.023

दर्शने मा कृथा बुद्धिं राघवस्य वरानने
कास्य शक्तिर् इहागन्तुम् अपि सीते मनोरथैः

3.053.024

न शक्यो वायुर् आकाशे पाशैर् बद्धं महाजवः
दीप्यमानस्य वाप्य् अग्नेर् ग्रहीतुं विमलां शिखाम्

3.053.025

त्रयाणाम् अपि लोकानां न तं पश्यामि शोभने
विक्रमेण नयेद् यस् त्वां मद्बाहुपरिपालिताम्

3.053.026

लङ्कायां सुमहद् राज्यम् इदं त्वम् अनुपालय
अभिषेकोदकक्लिन्ना तुष्टा च रमयस्व माम्

3.053.027

दुष्कृतं यत् पुरा कर्म वनवासेन तद् गतम्
यश् च ते सुकृतो धर्मस् तस्येह फलम् आप्नुहि

3.053.028

इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिलि
भूषणानि च मुख्यानि तानि सेव मया सह

3.053.029

पुष्पकं नाम सुश्रोणि भ्रातुर् वैश्रवणस्य मे
विमानं रमणीयं च तद् विमानं मनोजवम्

3.053.030

तत्र सीते मया सार्धं विहरस्व यथासुखम्
वदनं पद्मसंकाशं विमलं चारुदर्शनम्

3.053.031

शोकार्तं तु वरारोहे न भ्राजति वरानने
अलं व्रीडेन वैदेहि धर्मलोप कृतेन ते

3.053.032

आर्षो ऽयं दैवनिष्यन्दो यस् त्वाम् अभिगमिष्यति
एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ

3.053.033

प्रसादं कुरु मे क्षिप्रं वश्यो दासो ऽहम् अस्मि ते
नेमाः शून्या मया वाचः शुष्यमाणेन भाषिताः

3.053.034

न चापि रावणः कां चिन् मूर्ध्ना स्त्रीं प्रणमेत ह
एवम् उक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम्

3.053.035

कृतान्तवशम् आपन्नो ममेयम् इति मन्यते

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc