रामायण · अध्याय 3.052
ह्रियमाणा तु वैदेही कं चिन् नाथम् अपश्यती
ददर्श गिरिशृङ्गस्थान् पञ्चवानरपुंगवान्
तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम्
उत्तरीयं वरारोहा शुभान्य् आभरणानि च
मुमोच यदि रामाय शंसेयुर् इति मैथिली
वस्त्रम् उत्सृज्य तन् मध्ये विनिक्षिप्तं सभूषणम्
संभ्रमात् तु दशग्रीवस् तत् कर्म न च बुद्धिवान्
पिङ्गाक्षास् तां विशालाक्षीं नेत्रैर् अनिमिषैर् इव
विक्रोशन्तीं तदा सीतां ददृशुर् वानरर्षभाः
स च पम्पाम् अतिक्रम्य लङ्काम् अभिमुखः पुरीम्
जगाम रुदतीं गृह्य मैथिलीं राक्षसेश्वरः
तां जहार सुसंहृष्टो रावणो मृत्युम् आत्मनः
उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम्
वनानि सरितः शैलान् सरांसि च विहायसा
स क्षिप्रं समतीयाय शरश् चापाद् इव च्युतः
तिमिनक्रनिकेतं तु वरुणालयम् अक्षयम्
सरितां शरणं गत्वा समतीयाय सागरम्
संभ्रमात् परिवृत्तोर्मी रुद्धमीनमहोरगः
वैदेह्यां ह्रियमाणायां बभूव वरुणालयः
अन्तरिक्षगता वाचः ससृजुश् चारणास् तदा
एतद् अन्तो दशग्रीव इति सिद्धास् तदाब्रुवन्
स तु सीतां विवेष्टन्तीम् अङ्केनादाय रावणः
प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युम् आत्मनः
सो ऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम्
संरूढकक्ष्या बहुलं स्वम् अन्तःपुरम् आविशत्
तत्र ताम् असितापाङ्गीं शोकमोहपरायणाम्
निदधे रावणः सीतां मयो मायाम् इवासुरीम्
अब्रवीच् च दशग्रीवः पिशाचीर् घोरदर्शनाः
यथा नैनां पुमान् स्त्री वा सीतां पश्यत्य् असंमतः
मुक्तामणिसुवर्णानि वस्त्राण्य् आभरणानि च
यद् यद् इच्छेत् तद् एवास्या देयं मच्छन्दतो यथा
या च वक्ष्यति वैदेहीं वचनं किं चिद् अप्रियम्
अज्ञानाद् यदि वा ज्ञानान् न तस्या जीवितं प्रियम्
तथोक्त्वा राक्षसीस् तास् तु राक्षसेन्द्रः प्रतापवान्
निष्क्रम्यान्तःपुरात् तस्मात् किं कृत्यम् इति चिन्तयन्
ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान्
स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः
उवाचैतान् इदं वाक्यं प्रशस्य बलवीर्यतः
नानाप्रहरणाः क्षिप्रम् इतो गच्छत सत्वराः
जनस्थानं हतस्थानं भूतपूर्वं खरालयम्
तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे
पौरुषं बलम् आश्रित्य त्रासम् उत्सृज्य दूरतः
बलं हि सुमहद् यन् मे जनस्थाने निवेशितम्
सदूषणखरं युद्धे हतं तद् रामसायकैः
ततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते
वैरं च सुमहज् जातं रामं प्रति सुदारुणम्
निर्यातयितुम् इच्छामि तच् च वैरम् अहं रिपोः
न हि लप्स्याम्य् अहं निद्राम् अहत्वा संयुगे रिपुम्
तं त्व् इदानीम् अहं हत्वा खरदूषणघातिनम्
रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः
जनस्थाने वसद्भिस् तु भवद्भी रामम् आश्रिता
प्रवृत्तिर् उपनेतव्या किं करोतीति तत्त्वतः
अप्रमादाच् च गन्तव्यं सर्वैर् एव निशाचरैः
कर्तव्यश् च सदा यत्नो राघवस्य वधं प्रति
युष्माकं हि बलज्ञो ऽहं बहुशो रणमूर्धनि
अतश् चास्मिञ् जनस्थाने मया यूयं नियोजिताः
ततः प्रियं वाक्यम् उपेत्य राक्षसा महार्थम् अष्टाव् अभिवाद्य रावणम्
विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानम् अलक्ष्यदर्शनाः
ततस् तु सीताम् उपलभ्य रावणः सुसंप्रहृष्टः परिगृह्य मैथिलीम्
प्रसज्य रामेण च वैरम् उत्तमं बभूव मोहान् मुदितः स राक्षसः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0