भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.051

3.051.001

खम् उत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा
दुःखिता परमोद्विग्ना भये महति वर्तिनी

3.051.002

रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम्
रुदती करुणं सीता ह्रियमाणेदम् अब्रवीत्

3.051.003

न व्यपत्रपसे नीच कर्मणानेन रावण
ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे

3.051.004

त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुम् इच्छता
ममापवाहितो भर्ता मृगरूपेण मायया
यो हि माम् उद्यतस् त्रातुं सो ऽप्य् अयं विनिपातितः

3.051.005

परमं खलु ते वीर्यं दृश्यते राक्षसाधम
विश्राव्य नामधेयं हि युद्धे नास्ति जिता त्वया

3.051.006

ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे
स्त्रियाश् च हरणं नीच रहिते च परस्य च

3.051.007

कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम्
सुनृशंसम् अधर्मिष्ठं तव शौण्डीर्यमानिनः

3.051.008

धिक् ते शौर्यं च सत्त्वं च यत् त्वया कथितं तदा
कुलाक्रोशकरं लोके धिक् ते चारित्रम् ईदृशम्

3.051.009

किं शक्यं कर्तुम् एवं हि यज् जवेनैव धावसि
मुहूर्तम् अपि तिष्ठस्व न जीवन् प्रतियास्यसि

3.051.010

न हि चक्षुःपथं प्राप्य तयोः पार्थिवपुत्रयोः
ससैन्यो ऽपि समर्तःस् त्वं मुहूर्तम् अपि जीवितुम्

3.051.011

न त्वं तयोः शरस्पर्शं सोढुं शक्तः कथं चन
वने प्रज्वलितस्येव स्पर्शम् अग्नेर् विहंगमः

3.051.012

साधु कृत्वात्मनः पथ्यं साधु मां मुञ्च रावण
मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर् मम
विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि

3.051.013

येन त्वं व्यवसायेन बलान् मां हर्तुम् इच्छसि
व्यवसायः स ते नीच भविष्यति निरर्थकः

3.051.014

न ह्य् अहं तम् अपश्यन्ती भर्तारं विबुधोपमम्
उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम्

3.051.015

न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे
मृत्युकाले यथा मर्त्यो विपरीतानि सेवते

3.051.016

मुमूर्षूणां हि सर्वेषां यत् पथ्यं तन् न रोचते
पश्यामीव हि कण्ठे त्वां कालपाशावपाशितम्

3.051.017

यथा चास्मिन् भयस्थाने न बिभेषे दशानन
व्यक्तं हिरण्मयान् हि त्वं संपश्यसि महीरुहान्

3.051.018

नदीं वैरतणीं घोरां रुधिरौघनिवाहिनीम्
खड्गपत्रवनं चैव भीमं पश्यसि रावण

3.051.019

तप्तकाञ्चनपुष्पां च वैदूर्यप्रवरच्छदाम्
द्रक्ष्यसे शाल्मलीं तीक्ष्णाम् आयसैः कण्टकैश् चिताम्

3.051.020

न हि त्वम् ईदृशं कृत्वा तस्यालीकं महात्मनः
धारितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृणः

3.051.021

बद्धस् त्वं कालपाशेन दुर्निवारेण रावण
क्व गतो लप्स्यसे शर्म भर्तुर् मम महात्मनः

3.051.022

निमेषान्तरमात्रेण विना भ्रातरम् आहवे
राक्षसा निहता येन सहस्राणि चतुर्दश

3.051.023

स कथं राघवो वीरः सर्वास्त्रकुशलो बली
न त्वां हन्याच् छरैस् तीक्ष्णैर् इष्टभार्यापहारिणम्

3.051.024

एतच् चान्यच् च परुषं वैदेही रावणाङ्कगा
भयशोकसमाविष्टा करुणं विललाप ह

3.051.025

तथा भृशार्तां बहु चैव भाषिणीं विललाप पूर्वं करुणं च भामिनीम्
जहार पापस् तरुणीं विवेष्टतीं नृपात्मजाम् आगतगात्रवेपथुम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc