भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.049

3.049.001

इत्य् उक्तस्य यथान्यायं रावणस्य जटायुषा
क्रुद्धस्याग्निनिभाः सर्वा रेजुर् विंशतिदृष्टयः

3.049.002

संरक्तनयनः कोपात् तप्तकाञ्चनकुण्डलः
राक्षसेन्द्रो ऽभिदुद्राव पतगेन्द्रम् अमर्षणः

3.049.003

स संप्रहारस् तुमुलस् तयोस् तस्मिन् महावने
बभूव वातोद्धतयोर् मेघयोर् गगने यथा

3.049.004

तद् बभूवाद्भुतं युद्धं गृध्रराक्षसयोस् तदा
सपक्षयोर् माल्यवतोर् महापर्वतयोर् इव

3.049.005

ततो नालीकनाराचैस् तीक्ष्णाग्रैश् च विकर्णिभिः
अभ्यवर्षन् महाघोरैर् गृध्रराजं महाबलः

3.049.006

स तानि शरजालानि गृध्रः पत्ररथेश्वरः
जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे

3.049.007

तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः
चकार बहुधा गात्रे व्रणान् पतगसत्तमः

3.049.008

अथ क्रोधाद् दशग्रीवो जग्राह दशमार्गणान्
मृत्युदण्डनिभान् घोराञ् शत्रुमर्दनकाङ्क्षया

3.049.009

स तैर् बाणैर् महावीर्यः पूर्णमुक्तैर् अजिह्मगैः
बिभेद निशितैस् तीक्ष्णैर् गृध्रं घोरैः शिलीमुखैः

3.049.010

स राक्षसरथे पश्यञ् जानकीं बाष्पलोचनाम्
अचिन्तयित्वा बाणांस् तान् राक्षसं समभिद्रवत्

3.049.011

ततो ऽस्य सशरं चापं मुक्तामणिविभूषितम्
चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः

3.049.012

तच् चाग्निसदृशं दीप्तं रावणस्य शरावरम्
पक्षाभ्यां च महातेजा व्यधुनोत् पतगेश्वरः

3.049.013

काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान्
तांश् चास्य जवसंपन्नाञ् जघान समरे बली

3.049.014

वरं त्रिवेणुसंपन्नं कामगं पावकार्चिषम्
मणिहेमविचित्राङ्गं बभञ्ज च महारथम्
पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह

3.049.015

स भग्नधन्वा विरथो हताश्वो हतसारथिः
अङ्केनादाय वैदेहीं पपात भुवि रावणः

3.049.016

दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम्
साधु साध्व् इति भूतानि गृध्रराजम् अपूजयन्

3.049.017

परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम्
उत्पपात पुनर् हृष्टो मैथिलीं गृह्य रावणः

3.049.018

तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम्
गृध्रराजः समुत्पत्य जटायुर् इदम् अब्रवीत्

3.049.019

वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण
अल्पबुद्धे हरस्य् एनां वधाय खलु रक्षसाम्

3.049.020

समित्रबन्धुः सामात्यः सबलः सपरिच्छदः
विषपानं पिबस्य् एतत् पिपासित इवोदकम्

3.049.021

अनुबन्धम् अजानन्तः कर्मणाम् अविचक्षणाः
शीघ्रम् एव विनश्यन्ति यथा त्वं विनशिष्यसि

3.049.022

बद्धस् त्वं कालपाशेन क्व गतस् तस्य मोक्ष्यसे
वधाय बडिशं गृह्य सामिषं जलजो यथा

3.049.023

न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण
धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ

3.049.024

यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम्
तस्कराचरितो मार्गो नैष वीरनिषेवितः

3.049.025

युध्यस्व यदि शूरो ऽसि मुहूर्तं तिष्ठ रावण
शयिष्यसे हतो भूमौ यथा भ्राता खरस् तथा

3.049.026

परेतकाले पुरुषो यत् कर्म प्रतिपद्यते
विनाशायात्मनो ऽधर्म्यं प्रतिपन्नो ऽसि कर्म तत्

3.049.027

पापानुबन्धो वै यस्य कर्मणः को नु तत् पुमान्
कुर्वीत लोकाधिपतिः स्वयम्भूर् भगवान् अपि

3.049.028

एवम् उक्त्वा शुभं वाक्यं जटायुस् तस्य रक्षसः
निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान्

3.049.029

तं गृहीत्वा नखैस् तीक्ष्णैर् विरराद समन्ततः
अधिरूढो गजारोहि यथा स्याद् दुष्टवारणम्

3.049.030

विरराद नखैर् अस्य तुण्डं पृष्ठे समर्पयन्
केशांश् चोत्पाटयाम् आस नखपक्षमुखायुधः

3.049.031

स तथा गृध्रराजेन क्लिश्यमानो मुहुर् मुहुः
अमर्षस्फुरितौष्ठः सन् प्राकम्पत स राक्षसः

3.049.032

संपरिष्वज्य वैदेहीं वामेनाङ्केन रावणः
तलेनाभिजघानार्तो जटायुं क्रोधमूर्छितः

3.049.033

जटायुस् तम् अतिक्रम्य तुण्डेनास्य खराधिपः
वामबाहून् दश तदा व्यपाहरद् अरिंदमः

3.049.034

ततः क्रुद्धो दशक्रीवः सीताम् उत्सृज्य वीर्यवान्
मुष्टिभ्यां चरणाभ्यां च गृध्रराजम् अपोथयत्

3.049.035

ततो मुहूर्तं संग्रामो बभूवातुलवीर्ययोः
राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च

3.049.036

तस्य व्यायच्छमानस्य रामस्यार्थे ऽथ रावणः
पक्षौ पादौ च पार्श्वौ च खड्गम् उद्धृत्य सो ऽच्छिनत्

3.049.037

स छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा
निपपात हतो गृध्रो धरण्याम् अल्पजीवितः

3.049.038

तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम्
अभ्यधावत वैदेही स्वबन्धुम् इव दुःखिता

3.049.039

तं नीलजीमूतनिकाशकल्पं सुपाण्डुरोरस्कम् उदारवीर्यम्
ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तम् इवाग्निदावम्

3.049.040

ततस् तु तं पत्ररथं महीतले निपातितं रावणवेगमर्दितम्
पुनः परिष्वज्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc