रामायण · अध्याय 3.048
तं शब्दम् अवसुप्तस्य जटायुर् अथ शुश्रुवे
निरैक्षद् रावणं क्षिप्रं वैदेहीं च ददर्श सः
ततः पर्वतकूटाभस् तीक्ष्णतुण्डः खगोत्तमः
वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम्
दशग्रीवस्थितो धर्मे पुराणे सत्यसंश्रयः
जटायुर् नाम नाम्नाहं गृध्रराजो महाबलः
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः
लोकानां च हिते युक्तो रामो दशरथात्मजः
तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी
सीता नाम वरारोहा यां त्वं हर्तुम् इहेच्छसि
कथं राजा स्थितो धर्मे परदारान् परामृशेत्
रक्षणीया विशेषेण राजदारा महाबलः
निवर्तय मतिं नीचां परदाराभिमर्शनम्
न तत् समाचरेद् धीरो यत् परो ऽस्य विगर्हयेत्
यथात्मनस् तथान्येषां दारा रक्ष्या विमर्शनात्
अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्व् अनागतम्
व्यवस्यन्त्य् अनु राजानं धर्मं पौरस्त्यनन्दन
राजा धर्मश् च कामश् च द्रव्याणां चोत्तमो निधिः
धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते
पापस्वभावश् चपलः कथं त्वं रक्षसां वर
ऐश्वर्यम् अभिसंप्राप्तो विमानम् इव दुष्कृती
कामस्वभावो यो यस्य न स शक्यः प्रमार्जितुम्
न हि दुष्टात्मनाम् आर्य मा वसत्य् आलये चिरम्
विषये वा पुरे वा ते यदा रामो महाबलः
नापराध्यति धर्मात्मा कथं तस्यापराध्यसि
यदि शूर्पणखाहेतोर् जनस्थानगतः खरः
अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा
अत्र ब्रूहि यथासत्यं को रामस्य व्यतिक्रमः
यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि
क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा
दहेद् दहन भूतेन वृत्रम् इन्द्राशनिर् यथा
सर्पम् आशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे
ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि
स भारः सौम्य भर्तव्यो यो नरं नावसादयेत्
तद् अन्नम् उपभोक्तव्यं जीर्यते यद् अनामयम्
यत् कृत्वा न भवेद् धर्मो न कीर्तिर् न यशो भुवि
शरीरस्य भवेत् खेदः कस् तत् कर्म समाचरेत्
षष्टिवर्षसहस्राणि मम जातस्य रावण
पितृपैतामहं राज्यं यथावद् अनुतिष्ठतः
वृद्धो ऽहं त्वं युवा धन्वी सरथः कवची शरी
तथाप्य् आदाय वैदेहीं कुशली न गमिष्यसि
न शक्तस् त्वं बलाद् धर्तुं वैदेहीं मम पश्यतः
हेतुभिर् न्यायसंयुक्तैर् ध्रुवां वेदश्रुतीम् इव
युध्यस्व यदि शूरो ऽसि मुहूर्तं तिष्ठ रावण
शयिष्यसे हतो भूमौ यथापूर्वं खरस् तथा
असकृत् संयुगे येन निहता दैत्यदानवाः
नचिराच् चीरवासास् त्वां रामो युधि वधिष्यति
किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ
क्षिप्रं त्वं नश्यसे नीच तयोर् भीतो न संशयः
न हि मे जीवमानस्य नयिष्यसि शुभाम् इमाम्
सीतां कमलपत्राक्षीं रामस्य महषीं प्रियाम्
अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः
जीवितेनापि रामस्य तथा दशरथस्य च
तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण
युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर
वृन्ताद् इव फलं त्वां तु पातयेयं रथोत्तमात्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0