रामायण · अध्याय 3.047
सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान्
हस्ते हस्तं समाहत्य चकार सुमहद् वपुः
स मैथिलीं पुनर् वाक्यं बभाषे च ततो भृशम्
नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ
उद्वहेयं भुजाभ्यां तु मेदिनीम् अम्बरे स्थितः
आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः
अर्कं रुन्ध्यां शरैस् तीक्ष्णैर् विभिन्द्यां हि महीतलम्
कामरूपिणम् उन्मत्ते पश्य मां कामदं पतिम्
एवम् उक्तवतस् तस्य रावणस्य शिखिप्रभे
क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः
सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः
स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः
संरक्तनयनः श्रीमांस् तप्तकाञ्चनकुण्डलः
दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः
स परिव्राजकच्छद्म महाकायो विहाय तत्
प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः
संरक्तनयनः क्रोधाज् जीमूतनिचयप्रभः
रक्ताम्बरधरस् तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम्
स ताम् असितकेशान्तां भास्करस्य प्रभाम् इव
वसनाभरणोपेतां मैथिलीं रावणो ऽब्रवीत्
त्रिषु लोकेषु विख्यातं यदि भर्तारम् इच्छसि
माम् आश्रय वरारोहे तवाहं सदृशः पतिः
मां भजस्व चिराय त्वम् अहं श्लाघ्यस् तव प्रियः
नैव चाहं क्व चिद् भद्रे करिष्ये तव विप्रियम्
त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम्
राज्याच् च्युतम् असिद्धार्थं रामं परिमितायुषम्
कैर् गुणैर् अनुरक्तासि मूढे पण्डितमानिनि
यः स्त्रिया वचनाद् राज्यं विहाय ससुहृज्जनम्
अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः
इत्य् उक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम्
जग्राह रावणः सीतां बुधः खे रोहिणीम् इव
वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः
ऊर्वोस् तु दक्षिणेनैव परिजग्राह पाणिना
तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम्
प्राद्रवन् मृत्युसंकाशं भयार्ता वनदेवताः
स च मायामयो दिव्यः खरयुक्तः खरस्वनः
प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः
ततस् तां परुषैर् वाक्यैर् अभितर्ज्य महास्वनः
अङ्केनादाय वैदेहीं रथम् आरोपयत् तदा
सा गृहीतातिचुक्रोश रावणेन यशस्विनी
रामेति सीता दुःखार्ता रामं दूरगतं वने
ताम् अकामां स कामार्तः पन्नगेन्द्रवधूम् इव
विवेष्टमानाम् आदाय उत्पपाथाथ रावणः
ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा
भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा
हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक
ह्रियमाणां न जानीषे रक्षसा कामरूपिणा
जीवितं सुखम् अर्थांश् च धर्महेतोः परित्यजन्
ह्रियमाणाम् अधर्मेण मां राघव न पश्यसि
ननु नामाविनीतानां विनेतासि परंतप
कथम् एवंविधं पापं न त्वं शाधि हि रावणम्
ननु सद्यो ऽविनीतस्य दृश्यते कर्मणः फलम्
कालो ऽप्य् अङ्गी भवत्य् अत्र सस्यानाम् इव पक्तये
स कर्म कृतवान् एतत् कालोपहतचेतनः
जीवितान्तकरं घोरं रामाद् व्यसनम् आप्नुहि
हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह
ह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः
आमन्त्रये जनस्थानं कर्णिकारांश् च पुष्पितान्
क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः
माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम्
क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः
हंससारससंघुष्टां वन्दे गोदावरीं नदीम्
क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः
दैवतानि च यान्त्य् अस्मिन् वने विविधपादपे
नमस्करोम्य् अहं तेभ्यो भर्तुः शंसत मां हृताम्
यानि कानि चिद् अप्य् अत्र सत्त्वानि निवसन्त्य् उत
सर्वाणि शरणं यामि मृगपक्षिगणान् अपि
ह्रियमाणां प्रियां भर्तुः प्राणेभ्यो ऽपि गरीयसीम्
विवशापहृता सीता रावणेनेति शंसत
विदित्वा मां महाबाहुर् अमुत्रापि महाबलः
आनेष्यति पराक्रम्य वैवस्वतहृताम् अपि
रामाय तु यथातत्त्वं जटायो हरणं मम
लक्ष्मणाय च तत् सर्वम् आख्यातव्यम् अशेषतः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0