रामायण · अध्याय 3.046
एवं ब्रुवत्यां सीतायां संरब्धः परुषाक्षरम्
ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह
भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि
रावणो नाम भद्रं ते दशग्रीवः प्रतापवान्
यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः
विद्रवन्ति भयाद् भीता मृत्योर् इव सदा प्रजाः
येन वैश्रवणो भ्राता वैमात्रः कारणान्तरे
द्वन्द्वम् आसादितः क्रोधाद् रणे विक्रम्य निर्जितः
मद्भयार्तः परित्यज्य स्वम् अधिष्ठानम् ऋद्धिमत्
कैलासं पर्वतश्रेष्ठम् अध्यास्ते नरवाहनः
यस्य तत् पुष्पकं नाम विमानं कामगं शुभम्
वीर्याद् आवर्जितं भद्रे येन यामि विहायसं
मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि
विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः
यत्र तिष्ठाम्य् अहं तत्र मारुतो वाति शङ्कितः
तीव्रांशुः शिशिरांशुश् च भयात् संपद्यते रविः
निष्कम्पपत्रास् तरवो नद्यश् च स्तिमितोदकाः
भवन्ति यत्र यत्राहं तिष्ठामि च चरामि च
मम पारे समुद्रस्य लङ्का नाम पुरी शुभा
संपूर्णा राक्षसैर् घोरैर् यथेन्द्रस्यामरावती
प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता
हेमकक्ष्या पुरी रम्या वैदूर्यमय तोरणा
हस्त्यश्वरथसंभाधा तूर्यनादविनादिता
सर्वकामफलैर् वृक्षैः संकुलोद्यानशोभिता
तत्र त्वं वसती सीते राजपुत्रि मया सह
न स्रमिष्यसि नारीणां मानुषीणां मनस्विनि
भुञ्जाना मानुषान् भोगान् दिव्यांश् च वरवर्णिनि
न स्मरिष्यसि रामस्य मानुषस्य गतायुषः
स्थापयित्वा प्रियं पुत्रं राज्ञा दशरथेन यः
मन्दवीर्यः सुतो ज्येष्ठस् ततः प्रस्थापितो वनम्
तेन किं भ्रष्टराज्येन रामेण गतचेतसा
करिष्यसि विशालाक्षि तापसेन तपस्विना
सर्वराक्षसभर्तारं कामात् स्वयम् इहागतम्
न मन्मथशराविष्टं प्रत्याख्यातुं त्वम् अर्हसि
प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि
चरणेनाभिहत्येव पुरूरवसम् उर्वशी
एवम् उक्ता तु वैदेही क्रुद्धा संरक्तलोचना
अब्रवीत् परुषं वाक्यं रहिते राक्षसाधिपम्
कथं वैश्रवणं देवं सर्वभूतनमस्कृतम्
भ्रातरं व्यपदिश्य त्वम् अशुभं कर्तुम् इच्छसि
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः
येषां त्वं कर्कशो राजा दुर्बुद्धिर् अजितेन्द्रियः
अपहृत्य शचीं भार्यां शक्यम् इन्द्रस्य जीवितुम्
न तु रामस्य भार्यां माम् अपनीयास्ति जीवितम्
जीवेच् चिरं वज्रधरस्य हस्ताच् छचीं प्रधृष्याप्रतिरूपरूपाम्
न मादृशीं राक्षसधर्षयित्वा पीतामृतस्यापि तवास्ति मोक्षः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0