रामायण · अध्याय 3.045
रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा
परिव्राजकरूपेण शशंसात्मानम् आत्मना
ब्राह्मणश् चातिथिश् चैष अनुक्तो हि शपेत माम्
इति ध्यात्वा मुहूर्तं तु सीता वचनम् अब्रवीत्
दुहिता जनकस्याहं मैथिलस्य महात्मनः
सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम
संवत्सरं चाध्युषिता राघवस्य निवेशने
भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी
ततः संवत्सराद् ऊर्ध्वं सममन्यत मे पतिम्
अभिषेचयितुं रामं समेतो राजमन्त्रिभिः
तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने
कैकेयी नाम भर्तारं ममार्या याचते वरम्
प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे
मम प्रव्राजनं भर्तुर् भरतस्याभिषेचनम्
द्वाव् अयाचत भर्तारं सत्यसंधं नृपोत्तमम्
नाद्य भोक्ष्ये न च स्वप्स्ये न पास्ये ऽहं कदा चन
एष मे जीवितस्यान्तो रामो यद्य् अभिषिच्यते
इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः
अयाचतार्थैर् अन्वर्थैर् न च याच्ञां चकार सा
मम भर्ता महातेजा वयसा पञ्चविंशकः
रामेति प्रथितो लोके गुणवान् सत्यवाक् शुचिः
विशालाक्षो महाबाहुः सर्वभूतहिते रतः
अभिषेकाय तु पितुः समीपं रामम् आगतम्
कैकेयी मम भर्तारम् इत्य् उवाच द्रुतं वचः
तव पित्रा समाज्ञप्तं ममेदं शृणु राघव
भरताय प्रदातव्यम् इदं राज्यम् अकण्टकम्
त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च च
वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात्
तथेत्य् उवाच तां रामः कैकेयीम् अकुतोभयः
चकार तद् वचस् तस्या मम भर्ता दृढव्रतः
दद्यान् न प्रतिगृह्णीयात् सत्यब्रूयान् न चानृतम्
एतद् ब्राह्मण रामस्य व्रतं ध्रुवम् अनुत्तमम्
तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान्
रामस्य पुरुषव्याघ्रः सहायः समरे ऽरिहा
स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः
अन्वगच्छद् धनुष्पाणिः प्रव्रजन्तं मया सह
ते वयं प्रच्युता राज्यात् कैलेय्यास् तु कृते त्रयः
विचराम द्विजश्रेष्ठ वनं गम्भीरम् ओजसा
समाश्वस मुहूर्तं तु शक्यं वस्तुम् इह त्वया
आगमिष्यति मे भर्ता वन्यम् आदाय पुष्कलम्
स त्वं नाम च गोत्रं च कुलम् आचक्ष्व तत्त्वतः
एकश् च दण्डकारण्ये किमर्थं चरसि द्विज
एवं ब्रुवत्यां सीतायां रामपत्न्यां महाबलः
प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः
येन वित्रासिता लोकाः सदेवासुरपन्नगाः
अहं स रावणो नाम सीते रक्षोगणेश्वरः
त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम्
रतिं स्वकेषु दारेषु नाधिगच्छाम्य् अनिन्दिते
बह्वीनाम् उत्तमस्त्रीणाम् आहृतानाम् इतस् ततः
सर्वासाम् एव भद्रं ते ममाग्रमहिषी भव
लङ्का नाम समुद्रस्य मध्ये मम महापुरी
सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि
तत्र सीते मया सार्धं वनेषु विचरिष्यसि
न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि
पञ्चदास्यः सहस्राणि सर्वाभरणभूषिताः
सीते परिचरिष्यन्ति भार्या भवसि मे यदि
रावणेनैवम् उक्ता तु कुपिता जनकात्मजा
प्रत्युवाचानवद्याङ्गी तम् अनादृत्य राक्षसं
महागिरिम् इवाकम्प्यं महेन्द्रसदृशं पतिम्
महोदधिम् इवाक्षोभ्यम् अहं रामम् अनुव्रता
महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम्
नृसिंहं सिंहसंकाशम् अहं रामम् अनुव्रता
पूर्णचन्द्राननं वीरं राजवत्सं जितेन्द्रियम्
पृथुकीर्तिं महाबाहुम् अहं रामम् अनुव्रता
त्वं पुनर् जम्बुकः सिंहीं माम् इहेच्छसि दुर्लभाम्
नाहं शक्या त्वया स्प्रष्टुम् आदित्यस्य प्रभा यथा
पादपान् काञ्चनान् नूनं बहून् पश्यसि मन्दभाक्
राघवस्य प्रियां भार्यां यस् त्वम् इच्छसि रावण
क्षुधितस्य च सिंहस्य मृगशत्रोस् तरस्विनः
आशीविषस्य वदनाद् दंष्ट्राम् आदातुम् इच्छसि
मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुम् इच्छसि
कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुम् इच्छसि
अक्षिसूच्या प्रमृजसि जिह्वया लेढि च क्षुरम्
राघवस्य प्रियां भार्याम् अधिगन्तुं त्वम् इच्छसि
अवसज्य शिलां कण्ठे समुद्रं तर्तुम् इच्छसि
सूर्या चन्द्रमसौ चोभौ प्राणिभ्यां हर्तुम् इच्छसि
यो रामस्य प्रियां भार्यां प्रधर्षयितुम् इच्छसि
अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुम् इच्छसि
कल्याण वृत्तां रामस्य यो भार्यां हर्तुम् इच्छसि
अयोमुखानां शूलानाम् अग्रे चरितुम् इच्छसि
रामस्य सदृशीं भार्यां यो ऽधिगन्तुं त्वम् इच्छसि
यद् अन्तरं सिंहशृगालयोर् वने यद् अन्तरं स्यन्दनिकासमुद्रयोः
सुराग्र्यसौवीरकयोर् यद् अन्तरं तद् अन्तरं दाशरथेस् तवैव च
यद् अन्तरं काञ्चनसीसलोहयोर् यद् अन्तरं चन्दनवारिपङ्कयोः
यद् अन्तरं हस्तिबिडालयोर् वने तद् अन्तरं दशरथेस् तवैव च
यद् अन्तरं वायसवैनतेययोर् यद् अन्तरं मद्गुमयूरयोर् अपि
यद् अन्तरं सारसगृध्रयोर् वने तद् अन्तरं दाशरथेस् तवैव च
तस्मिन् सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ
हृतापि ते ऽहं न जरां गमिष्ये वज्रं यथा मक्षिकयावगीर्णम्
इतीव तद् वाक्यम् अदुष्टभावा सुदृष्टम् उक्त्वा रजनीचरं तम्
गात्रप्रकम्पाद् व्यथिता बभूव वातोद्धता सा कदलीव तन्वी
तां वेपमानाम् उपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः
कुलं बलं नाम च कर्म चात्मनः समाचचक्षे भयकारणार्थम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0