भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.044

3.044.001

तया परुषम् उक्तस् तु कुपितो राघवानुजः
स विकाङ्क्षन् भृशं रामं प्रतस्थे नचिराद् इव

3.044.002

तदासाद्य दशग्रीवः क्षिप्रम् अन्तरम् आस्थितः
अभिचक्राम वैदेहीं परिव्राजकरूपधृक्

3.044.003

श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही
वामे चांसे ऽवसज्याथ शुभे यष्टिकमण्डलू
परिव्राजकरूपेण वैदेहीं समुपागमत्

3.044.004

ताम् आससादातिबलो भ्रातृभ्यां रहितां वने
रहितां सूर्यचन्द्राभ्यां संध्याम् इव महत्तमः

3.044.005

ताम् अपश्यत् ततो बालां राजपुत्रीं यशस्विनीम्
रोहिणीं शशिना हीनां ग्रहवद् भृशदारुणः

3.044.006

तम् उग्रं पापकर्माणं जनस्थानरुहा द्रुमाः
समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः

3.044.007

शीघ्रस्रोताश् च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम्
स्तिमितं गन्तुम् आरेभे भयाद् गोदावरी नदी

3.044.008

रामस्य त्व् अन्तरं प्रेप्सुर् दशग्रीवस् तदन्तरे
उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः

3.044.009

अभव्यो भव्यरूपेण भर्तारम् अनुशोचतीम्
अभ्यवर्तत वैदेहीं चित्राम् इव शनैश्चरः

3.044.010

स पापो भव्यरूपेण तृणैः कूप इवावृतः
अतिष्ठत् प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम्

3.044.011

शुभां रुचिरदन्तौष्ठीं पूर्णचन्द्रनिभाननाम्
आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम्

3.044.012

स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम्
अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः

3.044.013

स मन्मथशराविष्टो ब्रह्मघोषम् उदीरयन्
अब्रवीत् प्रश्रितं वाक्यं रहिते राक्षसाधिपः

3.044.014

ताम् उत्तमां त्रिलोकानां पद्महीनाम् इव श्रियम्
विभ्राजमानां वपुषा रावणः प्रशशंस ह

3.044.015

का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि
कमलानां शुभां मालां पद्मिनीव च बिभ्रती

3.044.016

ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीर् अप्सरा वा शुभानने
भूतिर् वा त्वं वरारोहे रतिर् वा स्वैरचारिणी

3.044.017

समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास् तव
विशाले विमले नेत्रे रक्तान्ते कृष्णतारके

3.044.018

विशालं जघनं पीनम् ऊरू करिकरोपमौ
एताव् उपचितौ वृत्तौ सहितौ संप्रगल्भितौ

3.044.019

पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ
मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ

3.044.020

चारुस्मिते चारुदति चारुनेत्रे विलासिनि
मनो हरसि मे रामे नदीकूलम् इवाम्भसा

3.044.021

करान्तमितमध्यासि सुकेशी संहतस्तनी
नैव देवी न गन्धर्वी न यक्षी न च किंनरी

3.044.022

नैवंरूपा मया नारी दृष्टपूर्वा महीतले
इह वासश् च कान्तारे चित्तम् उन्माथयन्ति मे

3.044.023

सा प्रतिक्राम भद्रं ते न त्वं वस्तुम् इहार्हसि
राक्षसानाम् अयं वासो घोराणां कामरूपिणाम्

3.044.024

प्रासादाग्र्याणि रम्याणि नगरोपवनानि च
संपन्नानि सुगन्धीनि युक्तान्य् आचरितुं त्वया

3.044.025

वरं माल्यं वरं पानं वरं वस्त्रं च शोभने
भर्तारं च वरं मन्ये त्वद्युक्तम् असितेक्षणे

3.044.026

का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते
वसूनां वा वरारोहे देवता प्रतिभासि मे

3.044.027

नेह गच्छन्ती गन्धर्वा न देवा न च किंनराः
राक्षसानाम् अयं वासः कथं नु त्वम् इहागता

3.044.028

इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास् तथा
ऋक्षास् तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे

3.044.029

मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम्
कथम् एका महारण्ये न बिभेषि वनानने

3.044.030

कासि कस्य कुतश् च त्वं किंनिमित्तं च दण्डकान्
एका चरसि कल्याणि घोरान् राक्षससेवितान्

3.044.031

इति प्रशस्ता वैदेही रावणेन दुरात्मना
द्विजातिवेषेण हि तं दृष्ट्वा रावणम् आगतम्
सर्वैर् अतिथिसत्कारैः पूजयाम् आस मैथिली

3.044.032

उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च
अब्रवीत् सिद्धम् इत्य् एव तदा तं सौम्यदर्शनम्

3.044.033

द्विजातिवेषेण समीक्ष्य मैथिली तम् आगतं पात्रकुसुम्भधारिणम्
अशक्यम् उद्द्वेष्टुम् उपायदर्शनान् न्यमन्त्रयद् ब्राह्मणवद् यथागतम्

3.044.034

इयं बृसी ब्राह्मण कामम् आस्यताम् इदं च पाद्यं प्रतिगृह्यताम् इति
इदं च सिद्धं वनजातम् उत्तमं त्वदर्थम् अव्यग्रम् इहोपभुज्यताम्

3.044.035

निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम्
प्रहस्य तस्या हरणे धृतं मनः समर्पयाम् आस वधाय रावणः

3.044.036

ततः सुवेषं मृगया गतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा
निरीक्षमाणा हरितं ददर्श तन् महद् वनं नैव तु रामलक्ष्मणौ

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc