भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.043

3.043.001

आर्तस्वरं तु तं भर्तुर् विज्ञाय सदृशं वने
उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम्

3.043.002

न हि मे जीवितं स्थाने हृदयं वावतिष्ठते
क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम्

3.043.003

आक्रन्दमानं तु वने भ्रातरं त्रातुम् अर्हसि
तं क्षिप्रम् अभिधाव त्वं भ्रातरं शरणैषिणम्

3.043.004

रक्षसां वशम् आपन्नं सिंहानाम् इव गोवृषम्
न जगाम तथोक्तस् तु भ्रातुर् आज्ञाय शासनम्

3.043.005

तम् उवाच ततस् तत्र कुपिता जनकात्मजा
सौमित्रे मित्ररूपेण भ्रातुस् त्वम् असि शत्रुवत्

3.043.006

यस् त्वम् अस्याम् अवस्थायां भ्रातरं नाभिपद्यसे
इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते

3.043.007

व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते
तेन तिष्ठसि विस्रब्धस् तम् अपश्यन् महाद्युतिम्

3.043.008

किं हि संशयम् आपन्ने तस्मिन्न् इह मया भवेत्
कर्तव्यम् इह तिष्ठन्त्या यत् प्रधानस् त्वम् आगतः

3.043.009

इति ब्रुवाणं वैदेहीं बाष्पशोकपरिप्लुताम्
अब्रवील् लक्ष्मणस् त्रस्तां सीतां मृगवधूम् इव

3.043.010

देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु
राक्षसेषु पिशाचेषु किंनरेषु मृगेषु च

3.043.011

दानवेषु च घोरेषु न स विद्येत शोभने
यो रामं प्रतियुध्येत समरे वासवोपमम्

3.043.012

अवध्यः समरे रामो नैवं त्वं वक्तुम् अर्हसि
न त्वाम् अस्मिन् वने हातुम् उत्सहे राघवं विना

3.043.013

अनिवार्यं बलं तस्य बलैर् बलवताम् अपि
त्रिभिर् लोकैः समुद्युक्तैः सेश्वरैः सामरैर् अपि

3.043.014

हृदयं निर्वृतं ते ऽस्तु संतापस् त्यज्यताम् अयम्
आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम्

3.043.015

न स तस्य स्वरो व्यक्तं न कश् चिद् अपि दैवतः
गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः

3.043.016

न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना
रामेण त्वं वरारोहे न त्वां त्यक्तुम् इहोत्सहे

3.043.017

कृतवैराश् च कल्याणि वयम् एतैर् निशाचरैः
खरस्य निधने देवि जनस्थानवधं प्रति

3.043.018

राक्षसा विधिना वाचो विसृजन्ति महावने
हिंसाविहारा वैदेहि न चिन्तयितुम् अर्हसि

3.043.019

लक्ष्मणेनैवम् उक्ता तु क्रुद्धा संरक्तलोचना
अब्रवीत् परुषं वाक्यं लक्ष्मणं सत्यवादिनम्

3.043.020

अनार्य करुणारम्भ नृशंस कुलपांसन
अहं तव प्रियं मन्ये तेनैतानि प्रभाषसे

3.043.021

नैतच् चित्रं सपत्नेषु पापं लक्ष्मण यद् भवेत्
त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु

3.043.022

सुदुष्टस् त्वं वने रामम् एकम् एको ऽनुगच्छसि
मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा

3.043.023

कथम् इन्दीवरश्यामं रामं पद्मनिभेक्षणम्
उपसंश्रित्य भर्तारं कामयेयं पृथग् जनम्

3.043.024

समक्षं तव सौमित्रे प्राणांस् त्यक्ष्ये न संशयः
रामं विना क्षणम् अपि न हि जीवामि भूतले

3.043.025

इत्य् उक्तः परुषं वाक्यं सीतया सोमहर्षणम्
अब्रवील् लक्ष्मणः सीतां प्राञ्जलिर् विजितेन्द्रियः

3.043.026

उत्तरं नोत्सहे वक्तुं दैवतं भवती मम
वाक्यम् अप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि

3.043.027

स्वभावस् त्व् एष नारीणाम् एषु लोकेषु दृश्यते
विमुक्तधर्माश् चपलास् तीक्ष्णा भेदकराः स्त्रियः

3.043.028

उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः
न्यायवादी यथा वाक्यम् उक्तो ऽहं परुषं त्वया

3.043.029

धिक् त्वाम् अद्य प्रणश्य त्वं यन् माम् एवं विशङ्कसे
स्त्रीत्वाद् दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम्

3.043.030

गमिष्ये यत्र काकुत्स्थः स्वस्ति ते ऽस्तु वरानने
रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः

3.043.031

निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे
अपि त्वां सह रामेण पश्येयं पुनर् आगतः

3.043.032

लक्ष्मणेनैवम् उक्ता तु रुदती जनकात्मजा
प्रत्युवाच ततो वाक्यं तीव्रं बाष्पपरिप्लुता

3.043.033

गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण
आबन्धिष्ये ऽथ वा त्यक्ष्ये विषमे देहम् आत्मनः

3.043.034

पिबामि वा विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम्
न त्व् अहं राघवाद् अन्यं पदापि पुरुषं स्पृशे

3.043.035

इति लक्ष्मणम् आक्रुश्य सीता दुःखसमन्विता
पाणिभ्यां रुदती दुःखाद् उदरं प्रजघान ह

3.043.036

ताम् आर्तरूपां विमना रुदन्तीं सौमित्रिर् आलोक्य विशालनेत्राम्
आश्वासयाम् आस न चैव भर्तुस् तं भ्रातरं किं चिद् उवाच सीता

3.043.037

ततस् तु सीताम् अभिवाद्य लक्ष्मणः कृताञ्जलिः किं चिद् अभिप्रणम्य
अवेक्षमाणो बहुशश् च मैथिलीं जगाम रामस्य समीपम् आत्मवान्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc