भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.042

3.042.001

तथा तु तं समादिश्य भ्रातरं रघुनन्दनः
बबन्धासिं महातेजा जाम्बूनदमयत्सरुम्

3.042.002

ततस् त्रिविणतं चापम् आदायात्मविभूषणम्
आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः

3.042.003

तं वञ्चयानो राजेन्द्रम् आपतन्तं निरीक्ष्य वै
बभूवान्तर्हितस् त्रासात् पुनः संदर्शने ऽभवत्

3.042.004

बद्धासिर् धनुर् आदाय प्रदुद्राव यतो मृगः
तं स पश्यति रूपेण द्योतमानम् इवाग्रतः

3.042.005

अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर् महावने
अतिवृत्तम् इषोः पाताल् लोभयानं कदा चन

3.042.006

शङ्कितं तु समुद्भ्रान्तम् उत्पतन्तम् इवाम्बरे
दश्यमानम् अदृश्यं च नवोद्देशेषु केषु चित्

3.042.007

छिन्नाभ्रैर् इव संवीतं शारदं चन्द्रमण्डलम्
मुहूर्ताद् एव ददृशे मुहुर् दूरात् प्रकाशते

3.042.008

दर्शनादर्शनेनैव सो ऽपाकर्षत राघवम्
आसीत् क्रुद्धस् तु काकुत्स्थो विवशस् तेन मोहितः

3.042.009

अथावतस्थे सुश्रान्तश् छायाम् आश्रित्य शाद्वले
मृगैः परिवृतो वन्यैर् अदूरात् प्रत्यदृश्यत

3.042.010

दृष्ट्वा रामो महातेजास् तं हन्तुं कृतनिश्चयः
संधाय सुदृढे चापे विकृष्य बलवद् बली

3.042.011

तम् एव मृगम् उद्दिश्य ज्वलन्तम् इव पन्नगम्
मुमोच ज्वलितं दीप्तम् अस्त्रब्रह्मविनिर्मितम्

3.042.012

स भृशं मृगरूपस्य विनिर्भिद्य शरोत्तमः
मारीचस्यैव हृदयं विभेदाशनिसंनिभः

3.042.013

तालमात्रम् अथोत्पत्य न्यपतत् स शरातुरः
व्यनदद् भैरवं नादं धरण्याम् अल्पजीवितः
म्रियमाणस् तु मारीचो जहौ तां कृत्रिमां तनुम्

3.042.014

संप्राप्तकालम् आज्ञाय चकार च ततः स्वरम्
सदृशं राघवस्यैव हा सीते लक्ष्मणेति च

3.042.015

तेन मर्मणि निर्विद्धः शरेणानुपमेन हि
मृगरूपं तु तत् त्यक्त्वा राक्षसं रूपम् आत्मनः
चक्रे स सुमहाकायो मारीचो जीवितं त्यजन्

3.042.016

ततो विचित्रकेयूरः सर्वाभरणभूषितः
हेममाली महादंष्ट्रो राक्षसो ऽभूच् छराहतः

3.042.017

तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम्
जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन्

3.042.018

हा सीते लक्ष्मणेत्य् एवम् आक्रुश्य तु महास्वरम्
ममार राक्षसः सो ऽयं श्रुत्वा सीता कथं भवेत्

3.042.019

लक्ष्मणश् च महाबाहुः काम् अवस्थां गमिष्यति
इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः

3.042.020

तत्र रामं भयं तीव्रम् आविवेश विषादजम्
राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत् स्वरम्

3.042.021

निहत्य पृषतं चान्यं मांसम् आदाय राघवः
त्वरमाणो जनस्थानं ससाराभिमुखस् तदा

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc