भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.041

3.041.001

सा तं संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती
हेमराजतवर्णाभ्यां पार्श्वाभ्याम् उपशोभितम्

3.041.002

प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी
भर्तारम् अपि चाक्रन्दल् लक्ष्मणं चैव सायुधम्

3.041.003

तयाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ
वीक्षमाणौ तु तं देशं तदा ददृशतुर् मृगम्

3.041.004

शङ्कमानस् तु तं दृष्ट्वा लक्ष्मणो रामम् अब्रवीत्
तम् एवैनम् अहं मन्ये मारीचं राक्षसं मृगम्

3.041.005

चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने
अनेन निहता राम राजानः कामरूपिणा

3.041.006

अस्य मायाविदो मायामृगरूपम् इदं कृतम्
भानुमत्पुरुषव्याघ्र गन्धर्वपुरसंनिभम्

3.041.007

मृगो ह्य् एवंविधो रत्नविचित्रो नास्ति राघव
जगत्यां जगतीनाथ मायैषा हि न संशयः

3.041.008

एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता
उवाच सीता संहृष्टा छद्मना हृतचेतना

3.041.009

आर्यपुत्राभिरामो ऽसौ मृगो हरति मे मनः
आनयैनं महाबाहो क्रीडार्थं नो भविष्यति

3.041.010

इहाश्रमपदे ऽस्माकं बहवः पुण्यदर्शनाः
मृगाश् चरन्ति सहिताश् चमराः सृमरास् तथा

3.041.011

ऋक्षाः पृषतसंघाश् च वानराः किंनरास् तथा
विचरन्ति महाबाहो रूपश्रेष्ठा महाबलाः

3.041.012

न चास्य सदृशो राजन् दृष्टपूर्वो मृगः पुरा
तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः

3.041.013

नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः
द्योतयन् वनम् अव्यग्रं शोभते शशिसंनिभः

3.041.014

अहो रूपम् अहो लक्ष्मीः स्वरसंपच् च शोभना
मृगो ऽद्भुतो विचित्रो ऽसौ हृदयं हरतीव मे

3.041.015

यदि ग्रहणम् अभ्येति जीवन्न् एव मृगस् तव
आश्चर्यभूतं भवति विस्मयं जनयिष्यति

3.041.016

समाप्तवनवासानां राज्यस्थानां च नः पुनः
अन्तःपुरविभूषार्थो मृग एष भविष्यति

3.041.017

भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो
मृगरूपम् इदं दिव्यं विस्मयं जनयिष्यति

3.041.018

जीवन् न यदि ते ऽभ्येति ग्रहणं मृगसत्तमः
अजिनं नरशार्दूल रुचिरं मे भविष्यति

3.041.019

निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि
शष्पबृस्यां विनीतायाम् इच्छाम्य् अहम् उपासितुम्

3.041.020

कामवृत्तम् इदं रौद्रं स्त्रीणाम् असदृशं मतम्
वपुषा त्व् अस्य सत्त्वस्य विस्मयो जनितो मम

3.041.021

तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणा
तरुणादित्यवर्णेन नक्षत्रपथवर्चसा
बभूव राघवस्यापि मनो विस्मयम् आगतम्

3.041.022

एवं सीतावचः श्रुत्वा दृष्ट्वा च मृगम् अद्भुतम्
उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः

3.041.023

पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगताम् इमाम्
रूपश्रेष्ठतया ह्य् एष मृगो ऽद्य न भविष्यति

3.041.024

न वने नन्दनोद्देशे न चैत्ररथसंश्रये
कुतः पृथिव्यां सौमित्रे यो ऽस्य कश् चित् समो मृगः

3.041.025

प्रतिलोमानुलोमाश् च रुचिरा रोमराजयः
शोभन्ते मृगम् आश्रित्य चित्राः कनकबिन्दुभिः

3.041.026

पश्यास्य जृम्भमाणस्य दीप्ताम् अग्निशिखोपमाम्
जिह्वां मुखान् निःसरन्तीं मेघाद् इव शतह्रदाम्

3.041.027

मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरः
कस्य नामानिरूप्यो ऽसौ न मनो लोभयेन् मृगः

3.041.028

कस्य रूपम् इदं दृष्ट्वा जाम्बूनदमयप्रभम्
नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत्

3.041.029

मांसहेतोर् अपि मृगान् विहारार्थं च धन्विनः
घ्नन्ति लक्ष्मण राजानो मृगयायां महावने

3.041.030

धनानि व्यवसायेन विचीयन्ते महावने
धातवो विविधाश् चापि मणिरत्नसुवर्णिनः

3.041.031

तत् सारम् अखिलं नॄणां धनं निचयवर्धनम्
मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण

3.041.032

अर्थी येनार्थकृत्येन संव्रजत्य् अविचारयन्
तम् अर्थम् अर्थशास्त्रज्ञः प्राहुर् अर्थ्याश् च लक्ष्मण

3.041.033

एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि
उपवेक्ष्यति वैदेही मया सह सुमध्यमा

3.041.034

न कादली न प्रियकी न प्रवेणी न चाविकी
भवेद् एतस्य सदृशी स्पर्शनेनेति मे मतिः

3.041.035

एष चैव मृगः श्रीमान् यश् च दिव्यो नभश्चरः
उभाव् एतौ मृगौ दिव्यौ तारामृगमहीमृगौ

3.041.036

यदि वायं तथा यन् मां भवेद् वदसि लक्ष्मण
मायैषा राक्षसस्येति कर्तव्यो ऽस्य वधो मया

3.041.037

एतेन हि नृशंसेन मारीचेनाकृतात्मना
वने विचरता पूर्वं हिंसिता मुनिपुंगवाः

3.041.038

उत्थाय बहवो येन मृगयायां जनाधिपाः
निहताः परमेष्वासास् तस्माद् वध्यस् त्व् अयं मृगः

3.041.039

पुरस्ताद् इह वातापिः परिभूय तपस्विनः
उदरस्थो द्विजान् हन्ति स्वगर्भो ऽश्वतरीम् इव

3.041.040

स कदा चिच् चिराल् लोके आससाद महामुनिम्
अगस्त्यं तेजसा युक्तं भक्ष्यस् तस्य बभूव ह

3.041.041

समुत्थाने च तद् रूपं कर्तुकामं समीक्ष्य तम्
उत्स्मयित्वा तु भगवान् वातापिम् इदम् अब्रवीत्

3.041.042

त्वयाविगण्य वातापे परिभूताश् च तेजसा
जीवलोके द्विजश्रेष्ठास् तस्माद् असि जरां गतः

3.041.043

एवं तन् न भवेद् रक्षो वातापिर् इव लक्ष्मण
मद्विधं यो ऽतिमन्येत धर्मनित्यं जितेन्द्रियम्

3.041.044

भवेद् धतो ऽयं वातापिर् अगस्त्येनेव मा गतिः
इह त्वं भव संनद्धो यन्त्रितो रक्ष मैथिलीम्

3.041.045

अस्याम् आयत्तम् अस्माकं यत् कृत्यं रघुनन्दन
अहम् एनं वधिष्यामि ग्रहीष्याम्य् अथ वा मृगम्

3.041.046

यावद् गच्छामि सौमित्रे मृगम् आनयितुं द्रुतम्
पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम्

3.041.047

त्वचा प्रधानया ह्य् एष मृगो ऽद्य न भविष्यति
अप्रमत्तेन ते भाव्यम् आश्रमस्थेन सीतया

3.041.048

यावत् पृषतम् एकेन सायकेन निहन्म्य् अहम्
हत्वैतच् चर्म आदाय शीघ्रम् एष्यामि लक्ष्मण

3.041.049

प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण
भवाप्रमत्तः प्रतिगृह्य मैथिलीं प्रतिक्षणं सर्वत एव शङ्कितः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc