भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.040

3.040.001

एवम् उक्त्वा तु परुषं मारीचो रावणं ततः
गच्छावेत्य् अब्रवीद् दीनो भयाद् रात्रिंचरप्रभोः

3.040.002

दृष्टश् चाहं पुनस् तेन शरचापासिधारिणा
मद्वधोद्यतशस्त्रेण विनष्टं जीवितं च मे

3.040.003

किं तु कर्तुं मया शक्यम् एवं त्वयि दुरात्मनि
एष गच्छाम्य् अहं तात स्वस्ति ते ऽस्तु निशाचर

3.040.004

प्रहृष्टस् त्व् अभवत् तेन वचनेन स राक्षसः
परिष्वज्य सुसंश्लिष्टम् इदं वचनम् अब्रवीत्

3.040.005

एतच् छौण्डीर्ययुक्तं ते मच्छन्दाद् इव भाषितम्
इदानीम् असि मारीचः पूर्वम् अन्यो निशाचरः

3.040.006

आरुह्यताम् अयं शीघ्रं खगो रत्नविभूषितः
मया सह रथो युक्तः पिशाचवदनैः खरैः

3.040.007

ततो रावणमारीचौ विमानम् इव तं रथम्
आरुह्य ययतुः शीघ्रं तस्माद् आश्रममण्डलात्

3.040.008

तथैव तत्र पश्यन्तौ पत्तनानि वनानि च
गिरींश् च सरितः सर्वा राष्ट्राणि नगराणि च

3.040.009

समेत्य दण्डकारण्यं राघवस्याश्रमं ततः
ददर्श सहमरीचो रावणो राक्षसाधिपः

3.040.010

अवतीर्य रथात् तस्मात् ततः काञ्चनभूषणात्
हस्ते गृहीत्वा मारीचं रावणो वाक्यम् अब्रवीत्

3.040.011

एतद् रामाश्रमपदं दृश्यते कदलीवृतम्
क्रियतां तत् सखे शीघ्रं यदर्थं वयम् आगताः

3.040.012

स रावणवचः श्रुत्वा मारीचो राक्षसस् तदा
मृगो भूत्वाश्रमद्वारि रामस्य विचचार ह

3.040.013

मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः
रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः

3.040.014

किं चिद् अभ्युन्नत ग्रीव इन्द्रनीलनिभोदरः
मधूकनिभपार्श्वश् च कञ्जकिञ्जल्कसंनिभः

3.040.015

वैदूर्यसंकाशखुरस् तनुजङ्घः सुसंहतः
इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः

3.040.016

मनोहरस्निग्धवर्णो रत्नैर् नानाविधैर् वृतः
क्षणेन राक्षसो जातो मृगः परमशोभनः

3.040.017

वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत्
मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः

3.040.018

प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम्
विचरन् गच्छते सम्यक् शाद्वलानि समन्ततः

3.040.019

रूप्यबिन्दुशतैश् चित्रो भूत्वा च प्रियदर्शनः
विटपीनां किसलयान् भङ्क्त्वादन् विचचार ह

3.040.020

कदलीगृहकं गत्वा कर्णिकारान् इतस् ततः
समाश्रयन् मन्दगतिः सीतासंदर्शनं तदा

3.040.021

राजीवचित्रपृष्ठः स विरराज महामृगः
रामाश्रमपदाभ्याशे विचचार यथासुखम्

3.040.022

पुनर् गत्वा निवृत्तश् च विचचार मृगोत्तमः
गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते

3.040.023

विक्रीडंश् च पुनर् भूमौ पुनर् एव निषीदति
आश्रमद्वारम् आगम्य मृगयूथानि गच्छति

3.040.024

मृगयूथैर् अनुगतः पुनर् एव निवर्तते
सीतादर्शनम् आकाङ्क्षन् राक्षसो मृगतां गतः

3.040.025

परिभ्रमति चित्राणि मण्डलानि विनिष्पतन्
समुद्वीक्ष्य च सर्वे तं मृगा ये ऽन्ये वनेचराः

3.040.026

उपगम्य समाघ्राय विद्रवन्ति दिशो दश
राक्षसः सो ऽपि तान् वन्यान् मृगान् मृगवधे रतः

3.040.027

प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन्
तस्मिन्न् एव ततः काले वैदेही शुभलोचना

3.040.028

कुसुमापचये व्यग्रा पादपान् अत्यवर्तत
कर्णिकारान् अशोकांश् च चूटांश् च मदिरेक्षणा

3.040.029

कुसुमान्य् अपचिन्वन्ती चचार रुचिरानना
अनर्हारण्यवासस्य सा तं रत्नमयं मृगम्
मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना

3.040.030

तं वै रुचिरदण्तौष्ठं रूप्यधातुतनूरुहम्
विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत

3.040.031

स च तां रामदयितां पश्यन् मायामयो मृगः
विचचार ततस् तत्र दीपयन्न् इव तद् वनम्

3.040.032

अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम्
विस्मयं परमं सीता जगाम जनकात्मजा

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc