भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.039

3.039.001

आज्ञप्तो राजवद् वाक्यं प्रतिकूलं निशाचरः
अब्रवीत् परुषं वाक्यं मारीचो राक्षसाधिपम्

3.039.002

केनायम् उपदिष्टस् ते विनाशः पापकर्मणा
सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर

3.039.003

कस् त्वया सुखिना राजन् नाभिनन्दति पापकृत्
केनेदम् उपदिष्टं ते मृत्युद्वारम् उपायतः

3.039.004

शत्रवस् तव सुव्यक्तं हीनवीर्या निशाचर
इच्छन्ति त्वां विनश्यन्तम् उपरुद्धं बलीयसा

3.039.005

केनेदम् उपदिष्टं ते क्षुद्रेणाहितवादिना
यस् त्वाम् इच्छति नश्यन्तं स्वकृतेन निशाचर

3.039.006

वध्याः खलु न हन्यन्ते सचिवास् तव रावण
ये त्वाम् उत्पथम् आरूढं न निगृह्णन्ति सर्वशः

3.039.007

अमात्यैः कामवृत्तो हि राजा कापथम् आश्रितः
निग्राह्यः सर्वथा सद्भिर् न निग्राह्यो निगृह्यसे

3.039.008

धर्मम् अर्थं च कामं च यशश् च जयतां वर
स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर

3.039.009

विपर्यये तु तत् सर्वं व्यर्थं भवति रावण
व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः

3.039.010

राजमूलो हि धर्मश् च जयश् च जयतां वर
तस्मात् सर्वास्व् अवस्थासु रक्षितव्यो नराधिपः

3.039.011

राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर
न चापि प्रतिकूलेन नाविनीतेन राक्षस

3.039.012

ये तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वै
विषमेषु रथाः शीघ्रं मन्दसारथयो यथा

3.039.013

बहवः साधवो लोके युक्तधर्मम् अनुष्ठिताः
परेषाम् अपराधेन विनष्टाः सपरिच्छदाः

3.039.014

स्वामिना प्रतिकूलेन प्रजास् तीक्ष्णेन रावण
रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा

3.039.015

अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः
येषां त्वं कर्कशो राजा दुर्बुद्धिर् अजितेन्द्रियः

3.039.016

तद् इदं काकतालीयं घोरम् आसादितं त्वया
अत्र किं शोभनं यत् त्वं ससैन्यो विनशिष्यसि

3.039.017

मां निहत्य तु रामो ऽसौ नचिरात् त्वां वधिष्यति
अनेन कृतकृत्यो ऽस्मि म्रिये यद् अरिणा हतः

3.039.018

दर्शनाद् एव रामस्य हतं माम् उपधारय
आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम्

3.039.019

आनयिष्यसि चेत् सीताम् आश्रमात् सहितो मया
नैव त्वम् असि नैवाहं नैव लङ्का न राक्षसाः

3.039.020

निवार्यमाणस् तु मया हितैषिणा न मृष्यसे वाक्यम् इदं निशाचर
परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिर् ईरितम्

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc