भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.037

3.037.001

एवम् अस्मि तदा मुक्तः कथं चित् तेन संयुगे
इदानीम् अपि यद् वृत्तं तच् छृणुष्व यद् उत्तरम्

3.037.002

राक्षसाभ्याम् अहं द्वाभ्याम् अनिर्विण्णस् तथा कृतः
सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम्

3.037.003

दीप्तजिह्वो महाकायस् तीक्ष्णशृण्गो महाबलः
व्यचरन् दण्डकारण्यं मांसभक्षो महामृगः

3.037.004

अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण
अत्यन्तघोरो व्यचरंस् तापसांस् तान् प्रधर्षयन्

3.037.005

निहत्य दण्डकारण्ये तापसान् धर्मचारिणः
रुधिराणि पिबंस् तेषां तथा मांसानि भक्षयन्

3.037.006

ऋषिमांसाशनः क्रूरस् त्रासयन् वनगोचरान्
तदा रुधिरमत्तो ऽहं व्यचरं दण्डकावनम्

3.037.007

तदाहं दण्डकारण्ये विचरन् धर्मदूषकः
आसादयं तदा रामं तापसं धर्मम् आश्रितम्

3.037.008

वैदेहीं च महाभागां लक्ष्मणं च महारथम्
तापसं नियताहारं सर्वभूतहिते रतम्

3.037.009

सो ऽहं वनगतं रामं परिभूय महाबलम्
तापसो ऽयम् इति ज्ञात्वा पूर्ववैरम् अनुस्मरन्

3.037.010

अभ्यधावं सुसंक्रुद्धस् तीक्ष्णशृङ्गो मृगाकृतिः
जिघांसुर् अकृतप्रज्ञस् तं प्रहारम् अनुस्मरन्

3.037.011

तेन मुक्तास् त्रयो बाणाः शिताः शत्रुनिबर्हणाः
विकृष्य बलवच् चापं सुपर्णानिलतुल्यगाः

3.037.012

ते बाणा वज्रसंकाशाः सुघोरा रक्तभोजनाः
आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः

3.037.013

पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा
समुत्क्रान्तस् ततो मुक्तस् ताव् उभौ राक्षसौ हतौ

3.037.014

शरेण मुक्तो रामस्य कथं चित् प्राप्य जीवितम्
इह प्रव्राजितो युक्तस् तापसो ऽहं समाहितः

3.037.015

वृक्षे वृक्षे हि पश्यामि चीरकृष्णाजिनाम्बरम्
गृहीतधनुषं रामं पाशहस्तम् इवान्तकम्

3.037.016

अपि रामसहस्राणि भीतः पश्यामि रावण
रामभूतम् इदं सर्वम् अरण्यं प्रतिभाति मे

3.037.017

रामम् एव हि पश्यामि रहिते राक्षसेश्वर
दृष्ट्वा स्वप्नगतं रामम् उद्भ्रमामि विचेतनः

3.037.018

रकारादीनि नामानि रामत्रस्तस्य रावण
रत्नानि च रथाश् चैव त्रासं संजनयन्ति मे

3.037.019

अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम्
रणे रामेण युध्यस्व क्षमां वा कुरु राक्षस
न ते रामकथा कार्या यदि मां द्रष्टुम् इच्छसि

3.037.020

इदं वचो बन्धुहितार्थिना मया यथोच्यमानं यदि नाभिपत्स्यसे
सबान्धवस् त्यक्ष्यसि जीवितं रणे हतो ऽद्य रामेण शरैर् अजिह्मगैः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc