रामायण · अध्याय 3.036
कदा चिद् अप्य् अहं वीर्यात् पर्यटन् पृथिवीम् इमाम्
बलं नागसहस्रस्य धारयन् पर्वतोपमः
नीलजीमूतसंकाशस् तप्तकाञ्चनकुण्डलः
भयं लोकस्य जनयन् किरीटी परिघायुधः
व्यचरं दण्डकारण्यम् ऋषिमांसानि भक्षयन्
विश्वामित्रो ऽथ धर्मात्मा मद्वित्रस्तो महामुनिः
स्वयं गत्वा दशरथं नरेन्द्रम् इदम् अब्रवीत्
अयं रक्षतु मां रामः पर्वकाले समाहितः
मारीचान् मे भयं घोरं समुत्पन्नं नरेश्वर
इत्य् एवम् उक्तो धर्मात्मा राजा दशरथस् तदा
प्रत्युवाच महाभागं विश्वामित्रं महामुनिम्
ऊन षोडश वर्षो ऽयम् अकृतास्त्रश् च राघवः
कामं तु मम यत् सैन्यं मया सह गमिष्यति
बधिष्यामि मुनिश्रेष्ठ शत्रुं तव यथेप्सितम्
इत्य् एवम् उक्तः स मुनी राजानं पुनर् अब्रवीत्
रामान् नान्यद् बलं लोके पर्याप्तं तस्य रक्षसः
बालो ऽप्य् एष महातेजाः समर्थस् तस्य निग्रहे
गमिष्ये रामम् आदाय स्वस्ति ते ऽस्तु परंतपः
इत्य् एवम् उक्त्वा स मुनिस् तम् आदाय नृपात्मजम्
जगाम परमप्रीतो विश्वामित्रः स्वम् आश्रमम्
तं तदा दण्डकारण्ये यज्ञम् उद्दिश्य दीक्षितम्
बभूवावस्थितो रामश् चित्रं विस्फारयन् धनुः
अजातव्यञ्जनः श्रीमान् बालः श्यामः शुभेक्षणः
एकवस्त्रधरो धन्वी शिखी कनकमालया
शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा
अदृश्यत तदा रामो बालचन्द्र इवोदितः
ततो ऽहं मेघसंकाशस् तप्तकाञ्चनकुण्डलः
बली दत्तवरो दर्पाद् आजगाम तदाश्रमम्
तेन दृष्टः प्रविष्टो ऽहं सहसैवोद्यतायुधः
मां तु दृष्ट्वा धनुः सज्यम् असंभ्रान्तश् चकार ह
अवजानन्न् अहं मोहाद् बालो ऽयम् इति राघवम्
विश्वामित्रस्य तां वेदिम् अध्यधावं कृतत्वरः
तेन मुक्तस् ततो बाणः शितः शत्रुनिबर्हणः
तेनाहं ताडितः क्षिप्तः समुद्रे शतयोजने
रामस्य शरवेगेन निरस्तो भ्रान्तचेतनः
पातितो ऽहं तदा तेन गम्भीरे सागराम्भसि
प्राप्य संज्ञां चिरात् तात लङ्कां प्रति गतः पुरीम्
एवम् अस्मि तदा मुक्तः सहायास् ते निपातिताः
अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा
तन् मया वार्यमाणस् त्वं यदि रामेण विग्रहम्
करिष्यस्य् आपदं घोरां क्षिप्रं प्राप्य नशिष्यसि
क्रीडा रतिविधिज्ञानां समाजोत्सवशालिनाम्
रक्षसां चैव संतापम् अनर्थं चाहरिष्यसि
हर्म्यप्रासादसंबाधां नानारत्नविभूषिताम्
द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते
अकुर्वन्तो ऽपि पापानि शुचयः पापसंश्रयात्
परपापैर् विनश्यन्ति मत्स्या नागह्रदे यथा
दिव्यचन्दनदिग्धाङ्गान् दिव्याभरणभूषितान्
द्रक्ष्यस्य् अभिहतान् भूमौ तव दोषात् तु राक्षसान्
हृतदारान् सदारांश् च दशविद्रवतो दिशः
हतशेषान् अशरणान् द्रक्ष्यसि त्वं निशाचरान्
शरजालपरिक्षिप्ताम् अग्निज्वालासमावृताम्
प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वम् असंशयम्
प्रमदानां सहस्राणि तव राजन् परिग्रहः
भव स्वदारनिरतः स्वकुलं रक्षराक्षस
मानं वृद्धिं च राज्यं च जीवितं चेष्टम् आत्मनः
यदीच्छसि चिरं भोक्तुं मा कृथा राम विप्रियम्
निवार्यमाणः सुहृदा मया भृशं प्रसह्य सीतां यदि धर्षयिष्यसि
गमिष्यसि क्षीणबलः सबान्धवो यमक्षयं रामशरात्तजीवितः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0