भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.035

3.035.001

तच् छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः
प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम्

3.035.002

सुलभाः पुरुषा राजन् सततं प्रियवादिनः
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः

3.035.003

न नूनं बुध्यसे रामं महावीर्यं गुणोन्नतम्
अयुक्तचारश् चपलो महेन्द्रवरुणोपमम्

3.035.004

अपि स्वस्ति भवेत् तात सर्वेषां भुवि रक्षसाम्
अपि रामो न संक्रुद्धः कुर्याल् लोकम् अराक्षसं

3.035.005

अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा
अपि सीता निमित्तं च न भवेद् व्यसनं महत्

3.035.006

अपि त्वाम् ईश्वरं प्राप्य कामवृत्तं निरङ्कुशम्
न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा

3.035.007

त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः
आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः

3.035.008

न च पित्रा परित्यक्तो नामर्यादः कथं चन
न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः

3.035.009

न च धर्मगुणैर् हीनैः कौसल्यानन्दवर्धनः
न च तीक्ष्णो हि भूतानां सर्वेषां च हिते रतः

3.035.010

वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम्
करिष्यामीति धर्मात्मा ततः प्रव्रजितो वनम्

3.035.011

कैकेय्याः प्रियकामार्थं पितुर् दशरथस्य च
हित्वा राज्यं च भोगांश् च प्रविष्टो दण्डकावनम्

3.035.012

न रामः कर्कशस् तात नाविद्वान् नाजितेन्द्रियः
अनृतं न श्रुतं चैव नैव त्वं वक्तुम् अर्हसि

3.035.013

रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः
राजा सर्वस्य लोकस्य देवानाम् इव वासवः

3.035.014

कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा
इच्छसि प्रसभं हर्तुं प्रभाम् इव विवस्वतः

3.035.015

शरार्चिषम् अनाधृष्यं चापखड्गेन्धनं रणे
रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वम् अर्हसि

3.035.016

धनुर्व्यादितदीप्तास्यं शरार्चिषम् अमर्षणम्
चापबाणधरं वीरं शत्रुसेनापहारिणम्

3.035.017

राज्यं सुखं च संत्यज्य जीवितं चेष्टम् आत्मनः
नात्यासादयितुं तात रामान्तकम् इहार्हसि

3.035.018

अप्रमेयं हि तत् तेजो यस्य सा जनकात्मजा
न त्वं समर्थस् तां हर्तुं रामचापाश्रयां वने

3.035.019

प्राणेभ्यो ऽपि प्रियतरा भार्या नित्यम् अनुव्रता
दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा

3.035.020

किम् उद्यमं व्यर्थम् इमं कृत्वा ते राक्षसाधिप
दृष्टश् चेत् त्वं रणे तेन तद् अन्तं तव जीवितम्
जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम्

3.035.021

स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः
मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयम् आत्मनः

3.035.022

दोषाणां च गुणानां च संप्रधार्य बलाबलम्
आत्मनश् च बलं ज्ञात्वा राघवस्य च तत्त्वतः
हितं हि तव निश्चित्य क्षमं त्वं कर्तुम् अर्हसि

3.035.023

अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना
इदं हि भूयः शृणु वाक्यम् उत्तमं क्षमं च युक्तं च निशाचराधिप

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc