रामायण · अध्याय 3.034
मारीच श्रूयतां तात वचनं मम भाषतः
आर्तो ऽस्मि मम चार्तस्य भवान् हि परमा गतिः
जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम
दूषणश् च महाबाहुः स्वसा शूर्पणखा च मे
त्रिशिराश् च महातेजा राक्षसः पिशिताशनः
अन्ये च बहवः शूरा लब्धलक्षा निशाचराः
वसन्ति मन्नियोगेन अधिवासं च राक्षसः
बाधमाना महारण्ये मुनीन् ये धर्मचारिणः
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्
शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम्
ते त्व् इदानीं जनस्थाने वसमाना महाबलाः
संगताः परम् आयत्ता रामेण सह संयुगे
तेन संजातरोषेण रामेण रणमूर्धनि
अनुक्त्वा परुषं किं चिच् छरैर् व्यापारितं धनुः
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्
निहतानि शरैस् तीक्ष्णैर् मानुषेण पदातिना
खरश् च निहतः संख्ये दूषणश् च निपातितः
हत्वा त्रिशिरसं चापि निर्भया दण्डकाः कृताः
पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः
स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः
अशीलः कर्कशस् तीक्ष्णो मूर्खो लुब्धो ऽजितेन्द्रियः
त्यक्तधर्मस् त्व् अधर्मात्मा भूतानाम् अहिते रतः
येन वैरं विनारण्ये सत्त्वम् आश्रित्य केवलम्
कर्णनासापहारेण भगिनी मे विरूपिता
तस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम्
आनयिष्यामि विक्रम्य सहायस् तत्र मे भव
त्वया ह्य् अहं सहायेन पार्श्वस्थेन महाबल
भ्रातृभिश् च सुरान् युद्धे समग्रान् नाभिचिन्तये
तत् सहायो भव त्वं मे समर्थो ह्य् असि राक्षस
वीर्ये युद्धे च दर्पे च न ह्य् अस्ति सदृशस् तव
एतदर्थम् अहं प्राप्तस् त्वत्समीपं निशाचर
शृणु तत् कर्म साहाय्ये यत् कार्यं वचनान् मम
सौवर्णस् त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर
त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम्
गृह्यताम् इति भर्तारं लक्ष्मणं चाभिधास्यति
ततस् तयोर् अपाये तु शून्ये सीतां यथासुखम्
निराबाधो हरिष्यामि राहुश् चन्द्रप्रभाम् इव
ततः पश्चात् सुखं रामे भार्याहरणकर्शिते
विस्रब्धं प्रहरिष्यामि कृतार्थेनान्तरात्मना
तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः
शुष्कं समभवद् वक्त्रं परित्रस्तो बभूव च
स रावणं त्रस्तविषण्णचेता महावने रामपराक्रमज्ञः
कृताञ्जलिस् तत्त्वम् उवाच वाक्यं हितं च तस्मै हितम् आत्मनश् च
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0