भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.033

3.033.001

ततः शूर्पणखा वाक्यं तच् छ्रुत्वा रोमहर्षणम्
सचिवान् अभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह

3.033.002

तत् कार्यम् अनुगम्याथ यथावद् उपलभ्य च
दोषाणां च गुणानां च संप्रधार्य बलाबलम्

3.033.003

इति कर्तव्यम् इत्य् एव कृत्वा निश्चयम् आत्मनः
स्थिरबुद्धिस् ततो रम्यां यानशालां जगाम ह

3.033.004

यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपः
सूतं संचोदयाम् आस रथः संयुज्यताम् इति

3.033.005

एवम् उक्तः क्षणेनैव सारथिर् लघुविक्रमः
रथं संयोजयाम् आस तस्याभिमतम् उत्तमम्

3.033.006

काञ्चनं रथम् आस्थाय कामगं रत्नभूषितम्
पिशाचवदनैर् युक्तं खरैः कनकभूषणैः

3.033.007

मेघप्रतिमनादेन स तेन धनदानुजः
राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम्

3.033.008

स श्वेतबालव्यसनः श्वेतच्छत्रो दशाननः
स्निग्धवैदूर्यसंकाशस् तप्तकाञ्चनभूषणः

3.033.009

दशास्यो विंशतिभुजो दर्शनीय परिच्छदः
त्रिदशारिर् मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट्

3.033.010

कामगं रथम् आस्थाय शुशुभे राक्षसाधिपः
विद्युन्मण्डलवान् मेघः सबलाक इवाम्बरे

3.033.011

सशैलं सागरानूपं वीर्यवान् अवलोकयन्
नानापुष्पफलैर् वृक्षैर् अनुकीर्णं सहस्रशः

3.033.012

शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः
विशालैर् आश्रमपदैर् वेदिमद्भिः समावृतम्

3.033.013

कदल्य् आढकिसंबाधं नालिकेरोपशोभितम्
सालैस् तालैस् तमालैश् च तरुभिश् च सुपुष्पितैः

3.033.014

अत्यन्तनियताहारैः शोभितं परमर्षिभिः
नागैः सुपर्णैर् गन्धर्वैः किंनरैश् च सहस्रशः

3.033.015

जितकामैश् च सिद्धैश् च चामणैश् चोपशोभितम्
आजैर् वैखानसैर् माषैर् वालखिल्यैर् मरीचिपैः

3.033.016

दिव्याभरणमाल्याभिर् दिव्यरूपाभिर् आवृतम्
क्रीडा रतिविधिज्ञाभिर् अप्सरोभिः सहस्रशः

3.033.017

सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम्
देवदानवसंघैश् च चरितं त्व् अमृताशिभिः

3.033.018

हंसक्रौञ्चप्लवाकीर्णं सारसैः संप्रणादितम्
वैदूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा

3.033.019

पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च
तूर्यगीताभिजुष्टानि विमानानि समन्ततः

3.033.020

तपसा जितलोकानां कामगान्य् अभिसंपतन्
गन्धर्वाप्सरसश् चैव ददर्श धनदानुजः

3.033.021

निर्यासरसमूलानां चन्दनानां सहस्रशः
वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि च

3.033.022

अगरूणां च मुख्यानां वनान्य् उपवनानि च
तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम्

3.033.023

पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च
मुक्तानां च समूहानि शुष्यमाणानि तीरतः

3.033.024

शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा
काञ्चनानि च शैलानि राजतानि च सर्वशः

3.033.025

प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च
धनधान्योपपन्नानि स्त्रीरत्नैर् आवृतानि च

3.033.026

हस्त्यश्वरथगाढानि नगराण्य् अवलोकयन्
तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम्

3.033.027

अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम्
तत्रापश्यत् स मेघाभं न्यग्रोधम् ऋषिभिर् वृतम्

3.033.028

समन्ताद् यस्य ताः शाखाः शतयोजनम् आयताः
यस्य हस्तिनम् आदाय महाकायं च कच्चपम्
भक्षार्थं गरुडः शाखाम् आजगाम महाबलः

3.033.029

तस्य तां सहसा शाखां भारेण पतगोत्तमः
सुपर्णः पर्णबहुलां बभञ्जाथ महाबलः

3.033.030

तत्र वैखानसा माषा वालखिल्या मरीचिपाः
अजा बभूवुर् धूम्राश् च संगताः परमर्षयः

3.033.031

तेषां दयार्थं गरुडस् तां शाखां शतयोजनाम्
जगामादाय वेगेन तौ चोभौ गजकच्छपौ

3.033.032

एकपादेन धर्मात्मा भक्षयित्वा तद् आमिषम्
निषादविषयं हत्वा शाखया पतगोत्तमः
प्रहर्षम् अतुलं लेभे मोक्षयित्वा महामुनीन्

3.033.033

स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः
अमृतानयनार्थं वै चकार मतिमान् मतिम्

3.033.034

अयोजालानि निर्मथ्य भित्त्वा रत्नगृहं वरम्
महेन्द्रभवनाद् गुप्तम् आजहारामृतं ततः

3.033.035

तं महर्षिगणैर् जुष्टं सुपर्णकृतलक्षणम्
नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः

3.033.036

तं तु गत्वा परं पारं समुद्रस्य नदीपतेः
ददर्शाश्रमम् एकान्ते पुण्ये रम्ये वनान्तरे

3.033.037

तत्र कृष्णाजिनधरं जटावल्कलधारिणम्
ददर्श नियताहारं मारीचं नाम राक्षसं

3.033.038

स रावणः समागम्य विधिवत् तेन रक्षसा
ततः पश्चाद् इदं वाक्यम् अब्रवीद् वाक्यकोविदः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc