भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.032

3.032.001

ततः शूर्पणखां क्रुद्धां ब्रुवतीं परुषं वचः
अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः

3.032.002

कश् च रामः कथं वीर्यः किं रूपः किं पराक्रमः
किमर्थं दण्डकारण्यं प्रविष्टश् च सुदुश्चरम्

3.032.003

आयुधं किं च रामस्य निहता येन राक्षसाः
खरश् च निहतं संख्ये दूषणस् त्रिशिरास् तथा

3.032.004

इत्य् उक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता
ततो रामं यथान्यायम् आख्यातुम् उपचक्रमे

3.032.005

दीर्घबाहुर् विशालाक्षश् चीरकृष्णाजिनाम्बरः
कन्दर्पसमरूपश् च रामो दशरथात्मजः

3.032.006

शक्रचापनिभं चापं विकृष्य कनकाङ्गदम्
दीप्तान् क्षिपति नाराचान् सर्पान् इव महाविषान्

3.032.007

नाददानं शरान् घोरान् न मुञ्चन्तं महाबलम्
न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे

3.032.008

हन्यमानं तु तत् सैन्यं पश्यामि शरवृष्टिभिः
इन्द्रेणैवोत्तमं सस्यम् आहतं त्व् अश्मवृष्टिभिः

3.032.009

रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश
निहतानि शरैस् तीक्ष्णैस् तेनैकेन पदातिना

3.032.010

अर्धाधिकमुहूर्तेन खरश् च सहदूषणः
ऋषीणाम् अभयं दत्तं कृतक्षेमाश् च दण्डकाः

3.032.011

एका कथं चिन् मुक्ताहं परिभूय महात्मना
स्त्रीवधं शङ्कमानेन रामेण विदितात्मना

3.032.012

भ्राता चास्य महातेजा गुणतस् तुल्यविक्रमः
अनुरक्तश् च भक्तश् च लक्ष्मणो नाम वीर्यवान्

3.032.013

अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली
रामस्य दक्षिणे बाहुर् नित्यं प्राणो बहिष्चरः

3.032.014

रामस्य तु विशालाक्षी धर्मपत्नी यशस्विनी
सीता नाम वरारोहा वैदेही तनुमध्यमा

3.032.015

नैव देवी न गन्धर्वा न यक्षी न च किंनरी
तथारूपा मया नारी दृष्टपूर्वा महीतले

3.032.016

यस्य सीता भवेद् भार्या यं च हृष्टा परिष्वजेत्
अतिजीवेत् स सर्वेषु लोकेष्व् अपि पुरंदरात्

3.032.017

सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि
तवानुरूपा भार्या सा त्वं च तस्यास् तथा पतिः

3.032.018

तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम्
भार्यार्थे तु तवानेतुम् उद्यताहं वराननाम्

3.032.019

तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम्
मन्मथस्य शराणां च त्वं विधेयो भविष्यसि

3.032.020

यदि तस्याम् अभिप्रायो भार्यार्थे तव जायते
शीघ्रम् उद्ध्रियतां पादो जयार्थम् इह दक्षिणः

3.032.021

कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर
वधात् तस्य नृशंसस्य रामस्याश्रमवासिनः

3.032.022

तं शरैर् निशितैर् हत्वा लक्ष्मणं च महारथम्
हतनाथां सुखं सीतां यथावद् उपभोक्ष्यसे

3.032.023

रोचते यदि ते वाक्यं ममैतद् राक्षसेश्वर
क्रियतां निर्विशङ्केन वचनं मम राघव

3.032.024

निशम्य रामेण शरैर् अजिह्मगैर् हताञ् जनस्थानगतान् निशाचरान्
खरं च बुद्ध्वा निहतं च दूषणं त्वम् अद्य कृत्यं प्रतिपत्तुम् अर्हसि

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc