भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.031

3.031.001

ततः शूर्पणखा दीना रावणं लोकरावणम्
अमात्यमध्ये संक्रुद्धा परुषं वाक्यम् अब्रवीत्

3.031.002

प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः
समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे

3.031.003

सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम्
लुब्धं न बहु मन्यन्ते श्मशानाग्निम् इव प्रजाः

3.031.004

स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः
स तु वै सह राज्येन तैश् च कार्यैर् विनश्यति

3.031.005

अयुक्तचारं दुर्दर्शम् अस्वाधीनं नराधिपम्
वर्जयन्ति नरा दूरान् नदीपङ्कम् इव द्विपाः

3.031.006

ये न रक्षन्ति विषयम् अस्वाधीना नराधिपः
ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा

3.031.007

आत्मवद्भिर् विगृह्य त्वं देवगन्धर्वदानवैः
अयुक्तचारश् चपलः कथं राजा भविष्यसि

3.031.008

येषां चारश् च कोशश् च नयश् च जयतां वर
अस्वाधीना नरेन्द्राणां प्राकृतैस् ते जनैः समाः

3.031.009

यस्मात् पश्यन्ति दूरस्थान् सर्वान् अर्थान् नराधिपाः
चारेण तस्माद् उच्यन्ते राजानो दीर्घचक्षुषः

3.031.010

अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर् वृतम्
स्वजनं च जनस्थानं हतं यो नावबुध्यसे

3.031.011

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्
हतान्य् एकेन रामेण खरश् च सहदूषणः

3.031.012

ऋषीणाम् अभयं दत्तं कृतक्षेमाश् च दण्डकाः
धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा

3.031.013

त्वं तु लुब्धः प्रमत्तश् च पराधीनश् च रावण
विषये स्वे समुत्पन्नं भयं यो नावबुध्यसे

3.031.014

तीक्ष्णम् अल्पप्रदातारं प्रमत्तं गर्वितं शठम्
व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम्

3.031.015

अतिमानिनम् अग्राह्यम् आत्मसंभावितं नरम्
क्रोधनं व्यसने हन्ति स्वजनो ऽपि नराधिपम्

3.031.016

नानुतिष्ठति कार्याणि भयेषु न बिभेति च
क्षिप्रं राज्याच् च्युतो दीनस् तृणैस् तुल्यो भविष्यति

3.031.017

शुष्ककाष्ठैर् भवेत् कार्यं लोष्टैर् अपि च पांसुभिः
न तु स्थानात् परिभ्रष्टैः कार्यं स्याद् वसुधाधिपैः

3.031.018

उपभुक्तं यथा वासः स्रजो वा मृदिता यथा
एवं राज्यात् परिभ्रष्टः समर्थो ऽपि निरर्थकः

3.031.019

अप्रमत्तश् च यो राजा सर्वज्ञो विजितेन्द्रियः
कृतज्ञो धर्मशीलश् च स राजा तिष्ठते चिरम्

3.031.020

नयनाभ्यां प्रसुप्तो ऽपि जागर्ति नयचक्षुषा
व्यक्तक्रोधप्रसादश् च स राजा पूज्यते जनैः

3.031.021

त्वं तु रावणदुर्बुद्धिर् गुणैर् एतैर् विवर्जितः
यस्य ते ऽविदितश् चारै रक्षसां सुमहान् वधः

3.031.022

परावमन्ता विषयेषु संगतो नदेश कालप्रविभाग तत्त्ववित्
अयुक्तबुद्धिर् गुणदोषनिश्चये विपन्नराज्यो न चिराद् विपत्स्यते

3.031.023

इति स्वदोषान् परिकीर्तितांस् तया समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः
धनेन दर्पेण बलेन चान्वितो विचिन्तयाम् आस चिरं स रावणः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc