भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.030

3.030.001

ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश
हतान्य् एकेन रामेण रक्षसां भीमकर्मणाम्

3.030.002

दूषणं च खरं चैव हतं त्रिशिरसं रणे
दृष्ट्वा पुनर् महानादं ननाद जलदोपमा

3.030.003

सा दृष्ट्वा कर्म रामस्य कृतम् अन्यैः सुदुष्करम्
जगाम परमौद्विग्ना लङ्कां रावणपालिताम्

3.030.004

स ददर्श विमानाग्रे रावणं दीप्ततेजसं
उपोपविष्टं सचिवैर् मरुद्भिर् इव वासवम्

3.030.005

आसीनं सूर्यसंकाशे काञ्चने परमासने
रुक्मवेदिगतं प्राज्यं ज्वलन्तम् इव पावकम्

3.030.006

देवगन्धर्वभूतानाम् ऋषीणां च महात्मनाम्
अजेयं समरे शूरं व्यात्ताननम् इवान्तकम्

3.030.007

देवासुरविमर्देषु वज्राशनिकृतव्रणम्
ऐरावतविषाणाग्रैर् उत्कृष्टकिणवक्षसं

3.030.008

विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम्
विशालवक्षसं वीरं राजलक्ष्मणलक्षितम्

3.030.009

स्निग्धवैदूर्यसंकाशं तप्तकाञ्चनकुण्डलम्
सुभुजं शुक्लदशनं महास्यं पर्वतोपमम्

3.030.010

विष्णुचक्रनिपातैश् च शतशो देवसंयुगे
आहताङ्गं समस्तैश् च देवप्रहरणैस् तथा

3.030.011

अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम्
क्षेप्तारं पर्वताग्राणां सुराणां च प्रमर्दनम्

3.030.012

उच्छेत्तारं च धर्माणां परदाराभिमर्शनम्
सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा

3.030.013

पुरीं भोगवतीं गत्वा पराजित्य च वासुकिम्
तक्षकस्य प्रियां भार्यां पराजित्य जहार यः

3.030.014

कैलासं पर्वतं गत्वा विजित्य नरवाहनम्
विमानं पुष्पकं तस्य कामगं वै जहार यः

3.030.015

वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम्
विनाशयति यः क्रोधाद् देवोद्यानानि वीर्यवान्

3.030.016

चन्द्रसूर्यौ महाभागाव् उत्तिष्ठन्तौ परंतपौ
निवारयति बाहुभ्यां यः शैलशिखरोपमः

3.030.017

दशवर्षसहस्राणि तपस् तप्त्वा महावने
पुरा स्वयम्भुवे धीरः शिरांस्य् उपजहार यः

3.030.018

देवदानवगन्धर्वपिशाचपतगोरगैः
अभयं यस्य संग्रामे मृत्युतो मानुषाद् ऋते

3.030.019

मन्त्रर् अभितुष्टं पुण्यम् अध्वरेषु द्विजातिभिः
हविर्धानेषु यः सोमम् उपहन्ति महाबलः

3.030.020

आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम्
कर्कशं निरनुक्रोशं प्रजानाम् अहिते रतम्
रावणं सर्वभूतानां सर्वलोकभयावहम्

3.030.021

राक्षसी भ्रातरं क्रूरं सा ददर्श महाबलम्
तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम्
राक्षसेन्द्रं महाभागं पौलस्त्य कुलनन्दनम्

3.030.022

तम् अब्रवीद् दीप्तविशाललोचनं प्रदर्शयित्वा भयमोहमूर्छिता
सुदारुणं वाक्यम् अभीतचारिणी महात्मना शूर्पणखा विरूपिता

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc