रामायण · अध्याय 3.029
भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः
स्मयमानः खरं वाक्यं संरब्धम् इदम् अब्रवीत्
एतत् ते बलसर्वस्वं दर्शितं राक्षसाधम
शक्तिहीनतरो मत्तो वृथा त्वम् उपगर्जितम्
एषा बाणविनिर्भिन्ना गदा भूमितलं गता
अभिधानप्रगल्भस्य तव प्रत्ययघातिनी
यत् त्वयोक्तं विनष्टानाम् इदम् अश्रुप्रमार्जनम्
राक्षसानां करोमीति मिथ्या तद् अपि ते वचः
नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः
प्राणान् अपहरिष्यामि गरुत्मान् अमृतं यथा
अद्य ते भिन्नकण्ठस्य फेनबुद्बुदभूषितम्
विदारितस्य मद्बाणैर् मही पास्यति शोणितम्
पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः
स्वप्स्यसे गां समाश्लिष्य दुर्लभां प्रमदाम् इव
प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने
भविष्यन्त्य् अशरण्यानां शरण्या दण्डका इमे
जनस्थाने हतस्थाने तव राक्षसमच्छरैः
निर्भया विचरिष्यन्ति सर्वतो मुनयो वने
अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः
बाष्पार्द्रवदना दीना भयाद् अन्यभयावहाः
अद्य शोकरसज्ञास् ता भविष्यन्ति निशाचर
अनुरूपकुलाः पत्न्यो यासां त्वं पतिर् ईदृशः
नृशंसशील क्षुद्रात्मन् नित्यं ब्राह्मणकण्टक
त्वत्कृते शङ्कितैर् अग्नौ मुनिभिः पात्यते हविः
तम् एवम् अभिसंरब्धं ब्रुवाणं राघवं रणे
खरो निर्भर्त्सयाम् आस रोषात् खरतर स्वनः
दृढं खल्व् अवलिप्तो ऽसि भयेष्व् अपि च निर्भयः
वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुध्यसे
कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये
कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः
एवम् उक्त्वा ततो रामं संरुध्य भृकुटिं ततः
स ददर्श महासालम् अविदूरे निशाचरः
रणे प्रहरणस्यार्थे सर्वतो ह्य् अवलोकयन्
स तम् उत्पाटयाम् आस संदृश्य दशनच्छदम्
तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलः
रामम् उद्दिश्य चिक्षेप हतस् त्वम् इति चाब्रवीत्
तम् आपतन्तं बाणौघैश् छित्त्वा रामः प्रतापवान्
रोषम् आहारयत् तीव्रं निहन्तुं समरे खरम्
जातस्वेदस् ततो रामो रोषाद् रक्तान्तलोचनः
निर्बिभेद सहस्रेण बाणानां समरे खरम्
तस्य बाणान्तराद् रक्तं बहु सुस्राव फेनिलम्
गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः
विह्वलः स कृतो बाणैः खरो रामेण संयुगे
मत्तो रुधिरगन्धेन तम् एवाभ्यद्रवद् द्रुतम्
तम् आपतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम्
अपसर्पत् प्रतिपदं किं चित् त्वरितविक्रमः
ततः पावकसंकाशं बधाय समरे शरम्
खरस्य रामो जग्राह ब्रह्मदण्डम् इवापरम्
स तद् दत्तं मघवता सुरराजेन धीमता
संदधे च स धर्मात्मा मुमोच च खरं प्रति
स विमुक्तो महाबाणो निर्घातसमनिःस्वनः
रामेण धनुर् उद्यम्य खरस्योरसि चापतत्
स पपात खरो भूमौ दह्यमानः शराग्निना
रुद्रेणैव विनिर्दग्धः श्वेतारण्ये यथान्धकः
स वृत्र इव वज्रेण फेनेन नमुचिर् यथा
बलो वेन्द्राशनिहतो निपपात हतः खरः
ततो राजर्षयः सर्वे संगताः परमर्षयः
सभाज्य मुदिता रामम् इदं वचनम् अब्रुवन्
एतदर्थं महातेजा महेन्द्रः पाकशासनः
शरभङ्गाश्रमं पुण्यम् आजगाम पुरंदरः
आनीतस् त्वम् इमं देशम् उपायेन महर्षिभिः
एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम्
तद् इदं नः कृतं कार्यं त्वया दशरथात्मज
सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः
एतस्मिन्न् अन्तरे वीरो लक्ष्मणः सह सीतया
गिरिदुर्गाद् विनिष्क्रम्य संविवेशाश्रमं सुखी
ततो रामस् तु विजयी पूज्यमानो महर्षिभिः
प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिवादितः
तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम्
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0