भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 3.028

3.028.001

खरं तु विरथं रामो गदापाणिम् अवस्थितम्
मृदुपूर्वं महातेजाः परुषं वाक्यम् अब्रवीत्

3.028.002

गजाश्वरथसंबाधे बले महति तिष्ठता
कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम्

3.028.003

उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत्
त्रयाणाम् अपि लोकानाम् ईश्वरो ऽपि न तिष्ठति

3.028.004

कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर
तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टम् इवागतम्

3.028.005

लोभात् पापानि कुर्वाणः कामाद् वा यो न बुध्यते
भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकाद् इव

3.028.006

वसतो दण्डकारण्ये तापसान् धर्मचारिणः
किं नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस

3.028.007

न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः
ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः

3.028.008

अवश्यं लभते कर्ता फलं पापस्य कर्मणः
घोरं पर्यागते काले द्रुमः पुष्पम् इवार्तवम्

3.028.009

नचिरात् प्राप्यते लोके पापानां कर्मणां फलम्
सविषाणाम् इवान्नानां भुक्तानां क्षणदाचर

3.028.010

पापम् आच्चरतां घोरं लोकस्याप्रियम् इच्छताम्
अहम् आसादितो राजा प्राणान् हन्तुं निशाचर

3.028.011

अद्य हि त्वां मया मुक्ताः शराः काञ्चनभूषणाः
विदार्य निपतिष्यन्ति वल्मीकम् इव पन्नगाः

3.028.012

ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः
तान् अद्य निहतः संख्ये ससैन्यो ऽनुगमिष्यसि

3.028.013

अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः
निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा

3.028.014

प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम
अद्य ते पातयिष्यामि शिरस् तालफलं यथा

3.028.015

एवम् उक्तस् तु रामेण क्रुद्धः संरक्तलोचनः
प्रत्युवाच ततो रामं प्रहसन् क्रोधमूर्छितः

3.028.016

प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज
आत्मना कथम् आत्मानम् अप्रशस्यं प्रशंससि

3.028.017

विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः
कथयन्ति न ते किं चित् तेजसा स्वेन गर्विताः

3.028.018

प्राकृतास् त्व् अकृतात्मानो लोके क्षत्रियपांसनाः
निरर्थकं विकत्थन्ते यथा राम विकत्थसे

3.028.019

कुलं व्यपदिशन् वीरः समरे को ऽभिधास्यति
मृत्युकाले हि संप्राप्ते स्वयम् अप्रस्तवे स्तवम्

3.028.020

सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम्
सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना

3.028.021

न तु माम् इह तिष्ठन्तं पश्यसि त्वं गदाधरम्
धराधरम् इवाकम्प्यं पर्वतं धातुभिश् चितम्

3.028.022

पर्याप्तो ऽहं गदापाणिर् हन्तुं प्राणान् रणे तव
त्रयाणाम् अपि लोकानां पाशहस्त इवान्तकः

3.028.023

कामं बह्व् अपि वक्तव्यं त्वयि वक्ष्यामि न त्व् अहम्
अस्तं गच्छेद् धि सविता युद्धविघ्रस् ततो भवेत्

3.028.024

चतुर्दश सहस्राणि राक्षसानां हतानि ते
त्वद्विनाशात् करोम्य् अद्य तेषाम् अश्रुप्रमार्जनम्

3.028.025

इत्य् उक्त्वा परमक्रुद्धस् तां गदां परमाङ्गदाम्
खरश् चिक्षेप रामाय प्रदीप्ताम् अशनिं यथा

3.028.026

खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा
भस्मवृक्षांश् च गुल्मांश् च कृत्वागात् तत्समीपतः

3.028.027

ताम् आपतन्तीं ज्वलितां मृत्युपाशोपमां गदा
अन्तरिक्षगतां रामश् चिच्छेद बहुधा शरैः

3.028.028

सा विशीर्णा शरैर् भिन्ना पपात धरणीतले
गदामन्त्रौषधिबलैर् व्यालीव विनिपातिता

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc